________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
ताभावप्रतियोगित्वात् । असत्त्व असत्त्वशब्दार्थः । निरुपाख्यत्वं शब्दवृत्त्यविषयत्वम् । ख्यायमानत्त्वात् वृत्तिसम्बन्धेन सम्बध्यमानत्वात् । निरुपाख्यादिपदानामलीकेऽनुभावकत्वरूपशक्तिविरहेऽप्यननुभवरूपमलीकविषयकं विकल्पं प्रति योगेन लक्षणया सङ्केतविशेषेण वा अलीकोपस्थितिद्वारा जनकत्वमावश्यकम् । तादृशविकल्पस्य साक्षिसिद्धत्वात् । 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पातञ्जलसूत्रेण तादृशविकल्पस्य सद्रूपवस्त्वविषयकस्य शब्दज्ञानजन्यत्वस्य उक्तत्वात् । अत एव 'वृत्तयः पञ्चतय्यः प्रमाणविपर्ययविकल्पनिद्रास्मृतय' इति वृत्तिज्ञानानां पञ्चधा विभागेन विपर्ययरूपात् सद्रूपाधिष्ठानविषयकात् भ्रमात्पार्थक्येन विकल्पः पातञ्जलसूत्र एवोक्तः । निद्रा सौघुप्तवृत्तिः । न च निर्धर्मकत्वादलीके निरुपाख्यादिपदानां योगादिवृत्त्यसम्भव इति वाच्यम् । तस्येतरधर्मशून्यत्वेऽपि अभावस्य विकल्पविषयत्वादेश्च धर्मस्य तत्र स्वीकारेण योगेन वाचकशब्दरूपोपाख्याविरहोपस्थित्योक्तविरहाश्रयालीकोपस्थितिसम्भवेन लक्ष्ःणासम्भवात् 'अनेन पदेनालीकं बोध्य'मिति सङ्केतसम्भवाच्च । तथा च वृत्तिविषय एवालीकमिति भावः । अपरोक्षतया अप्रतीयमानत्वं प्रमाणजन्यप्रत्यक्षाविषयत्वम् । यथाश्रुते नित्यातीन्द्रियस्यापीशं प्रति अपरोक्षत्वान्नित्येत्याद्यसङ्गतेः । नास्त्येवेति । प्रकृतानुमानीयपक्षे ज्ञायमानमित्यादिः । तथा च सामान्यानुमाने सत्त्वेन प्रतीत्यर्हमित्यस्य पक्षविशेषणस्योक्तत्वेन तादृशविशेषणविशिष्टप्रपञ्चे प्रतिपन्नेत्यादिमिथ्यात्वसिद्धावपि नालीकत्वमादायार्थान्तरमिति भावः ! ननु, शून्यवादिनो माध्यमिकस्य मते सर्वं मिथ्येति स्वीकारेऽपि घटसन्नित्यादिधीः स्वीक्रियते । सर्वानुभवसिद्धायास्तस्या अपलापासम्भवात् । तत्रचाबाध्यरूपसत्तादात्म्यं न भाति । किन्त्वर्थक्रियाकारित्वमिति तैः स्वीक्रियते। तथाचान्यैरपि तथैवोच्यतां तत्राह । न च बाधादित्यादि । सत्त्वेन अबाध्यरूपसत्तादात्म्येन । माध्यमिकान्यैस्सर्वैरपि वादिभिरिति शेषः । तथा च माध्यमिकभिन्नानामनुभवस्तादृश इति भावः । ननु, तथापि विशेषानुमानेषूक्तविशेषणस्य पक्षे अनुक्तत्वादर्थान्तरम् । उक्तमिथ्यात्वस्य मिथ्यालक्षणत्वासंभवश्वालोकेऽतिव्याप्तेस्तत्राह-एतदिति । प्रपञ्चस्य सत्तादात्म्येन प्रतीयमानत्वमेव । सदकेन अबाध्यार्थकेन । प्रतिपन्नपदयुक्तेनेति शेषः । उपाधिपदस्य स्वसमीपवर्तिनि स्वधर्मसंक्रामकार्थकत्वात् स्वसमीपवृत्तिदृश्यत्वावच्छेदेन स्वगतसत्त्वादिधर्मभ्रमजनकत्वस्य प्रकते तात्पर्यविषयत्वात् सर्वाधिष्ठानमेव प्रकृते उपाधिपदार्थइति भावः । लक्षणपक्षे तु उपाधिपदस्य सदर्थकत्वं विशेषानुमानपक्ष इवेति वक्ष्यते । सूचितमिति । प्रतिपन्नपदस्य स्वतादात्म्यधीविशेष्यार्थकतयोपाधिपदार्थे
For Private and Personal Use Only