________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे द्वितीयमिथ्यात्वम् ।
लघुचन्द्रिका।
भावं व्यावहारिकत्वेन भासमानमवगाहते । तथा च व्यावहारिकमित्यस्य व्यावहारिकत्वेन भासमानमित्यर्थः । व्यावहारिकत्वं च व्यवहारकालाबाध्यत्वम् । तच्च प्रातीतिकत्वेनोक्तबाध्यत्वरूपेणागृह्यमाणे प्रातीतिकोऽपि बाधकज्ञानेन गृहीतुं शक्यत एवेति भावः । कण्ठोक्तं बाधकधीविषयः । ननु, स्वसमानाधिकरणस्वान्यूनसत्ताकात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वं बाधकज्ञानेन नियमतो गृह्यत इति वक्तुमशक्यम् । स्वाधिकरणत्वस्य भ्रमरूपोपस्थितेः बाधात्पूर्वं सत्त्वेऽप्यन्यूनसत्ताकत्वस्य पूर्वमनुपस्थितत्वात् चक्षुरादिमानायोग्यत्वादनुमानाद्यनवतारेऽपि बाधबुद्धयुदयाचेति चेदत्रोच्यते । न्यूनसत्ताकत्वेन रूपेण व्यवहारकाले यदज्ञातं तादृशामावस्यैव मिथ्यात्वघटकतास्वीकारेण 'अज्ञातत्वेन सर्व साक्षिभास्यमिति विवरणाद्युक्तेः स्वसामानाधिकरण्यादेश्च बाधकवृत्तिज्ञानविषयत्वादुक्तमिथ्यात्वस्य बाधकवृत्तिज्ञानावच्छिनसाक्षिणा नियमेन ग्रहणम् । एवं व्यावहारिकाभावघटितमिथ्यात्वपक्षेऽपि व्यवहारकालीनज्ञाननिवर्त्यत्वेनाज्ञाताभावस्य मिथ्यात्वघटकत्वं स्वीकृत्य निर्वहणीयमिति । नापसिद्धान्त इत्यादि । 'स्वरूपेण प्रातीतिकरूप्यस्य न निषेध' इति सिद्धान्तहानिने दोषः । तथा सिद्धान्तस्यैवास्मदाचार्यानभिमतत्त्वात् । अत एव व्यावहारिकरजतस्यैव स्वरूपेण निषेधस्वीकारे भ्रमबाधवैयधिकरण्यादिवारणाय तस्यैव भ्रमे भानस्य वाच्यत्वेऽन्यथाख्यात्यापत्तिरिति दोषोऽपि न । एवमुक्तपञ्चपादिकाविवरणादिग्रन्थविरोधोऽपि नेत्यर्थः । अत्यन्तासत्त्वापातइति । अवच्छिन्नवृत्तिकान्यसर्वदेशवत्तिकात्यन्ताभावस्य प्रतियोगित्वमत्यन्तासत्त्वम् । तदादाय प्रपञ्चेऽर्थान्तरापत्तिरुक्तानु. माने स्यादित्यर्थः । ननु, प्रतिपन्नोपाधिमात्रनिष्ठात्यन्ताभावप्रतियोगित्वमुक्तानुमानात्सिद्धम् । न तूक्तात्यन्तासत्त्वम् । अतः कथमर्थान्तरं तत्राह-प्रतीत्यादि । त्रैकालिकनिषेधेति। अवच्छिन्नवृत्तिकान्यात्यन्ताभावेत्यर्थः । अन्यत्रासत्त्वेन प्रतिपन्नोपाधिभिननिष्ठावच्छिन्नवृत्तिकान्यात्यन्ताभावप्रतियोगित्वेन । प्रतिपन्नस्य प्रमितस्य । पर्यन्तं निश्चयप्रयोजकं निश्चायकम् । तथा चोक्तानुमानेनान्यत्रासत्त्वनिश्चयसहकतेनोक्तात्य, न्तासत्त्वनिश्चयसम्भव इति भावः । ननु, तथापि सर्वत्रेत्ययुक्तम् । यत्किञ्चित्प्रत्तिपन्नोपाधेरेवोक्तमिथ्यात्वे निवेशात्तत्राह-अन्यथेति । उक्तमिथ्यात्वे सर्वस्य प्रतिपन्नोपाधेरनिवेश इत्यर्थः। अन्यत्रेति। स्वानधिकरणे प्रतिपन्नोपाध्यन्तर इत्यर्थः । सत्त्वापातात् सत्त्वमादायार्थान्तरतापातात् । किं चित्प्रतिपन्नोपाधिमात्रनिष्ठव्याप्यवृच्यत्यन्ताभावप्रतियोगित्वमादाय सिद्धसाधनतापाताच्च। ननु, प्रतिपन्नोपाधिभिन्नदेशेऽसवस्य सन्दिग्धत्वेन न प्रपञ्चस्यात्यन्तासत्त्वापत्तिस्तत्राह-न हीत्यादि । त्वदुक्तः त्वदाचार्योक्तेः । तथा च निश्चितमेव तदिति भावः । इतः सर्वदेशनिष्ठव्याप्यवृत्त्यत्य
For Private and Personal Use Only