________________
Shri Mahavir Jain Aradhana Kendra
४६
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
व्यावहारिकस्य मिथ्यात्वस्य व्यावहारिकसम्बन्धभानवत् । न च प्रातीतिकं रजतत्वं प्रातीतिक्रमात्रवृत्तितादात्म्यत्वविशिष्टसम्बन्धं चादाय विशिष्टबुद्ध्यापत्तिरुक्तबाधसत्त्वे ऽपीति वाच्यम् । तादृशरजतत्वादौ तादृशतादात्म्यत्वे च मानाभावात् । व्यावहारिकवृत्तेर्व्यावहारिकस्यैव रजतत्वस्य प्रातीतिकरजते मानाव्यावहारिकतादात्म्यसाधारणव्यावहारिकतादात्म्यत्वस्य तत्संसर्गतावच्छेदकतया मानाच्च । अथ भ्रमस्थले दोषजन्यतावच्छेदकतया प्रातीतिकं रजतत्वादिकं प्रातीतिकमात्रवृत्तितादात्म्यत्वञ्च सिद्ध्यति । व्यावहारिकसाधारणं रजतत्वादिकञ्च न दोषजन्यतावच्छेदकम् । दोषं विनापि तदवच्छिन्नस्य व्यावहारिकस्योत्पत्या व्यभिचारादिति चेन्न । व्यावहारिकसाधारणस्य दोषजन्यतावच्छेदकत्त्वेऽपि प्रातीतिकतादात्म्यस्यैव उक्तजन्यतावच्छेदकसम्बन्धत्वेनोक्तव्यभिचारानवकाशात् व्यावहारिकसम्बन्धेनैव व्यावहारिकस्योत्पत्तेः । न चोक्तकार्यतावच्छेदकसम्बन्धे प्रातीतिकत्वं यत् प्रवेशितं तस्य व्यवहारकालवाच्यत्वरूपत्वे गौरवात् प्रातीतिकमात्रवृत्त्यखण्डधर्मरूपत्वं वाच्यमिति वाच्यम् । तथा सति दोषजन्यज्ञानात् व्यावहारिकसाधारणतादात्म्यत्वविशिष्टसम्बन्धविषयकप्रवृत्त्यादिकार्योत्पत्यसम्भवात् । अत एव चोक्तगौरवं प्रामाणिकम् । अत एव च रजतत्वादिकमपि न प्रातीतिकमात्रवृत्ति । प्राचीनोक्तिस्तु, रजतत्वादिकं स्वरूपेण व्यावहारिक प्रातीतिकरजतसाधारणमपि प्रातीतिकरजतादिसंसृष्टरूपेण प्रातीतिकमेव न व्यावहारिकसाधारणमित्यभिप्रायिका । अत एव व्यावहारिकसम्बन्धेन कपालादेर्घटादिहेतुत्वे न प्रातीतिककपालात् घटाद्युत्पत्यापत्तिः । किं च 'कपालादिरूपकारकूटविशिष्टं यत् यत्क्षणे भवति तत् तदुत्तरक्षणावच्छेदेन घटव' दिति व्याप्तिवलादुक्तापत्तिः कार्या । उक्तव्याप्तिरेव न सम्भवति । कपालादिकारणकूटनिष्ठव्यातौ कपालादेर्व्यावहारिकसम्बन्धस्य प्रवेशात् स्वव्यापकघटसमानाधिकरणवृत्तिकपालादिकारणकूटत्ववत्त्वस्य व्यावहारिकसम्बन्धावच्छिन्नस्य व्याप्तिस्वरूपत्वाद्वा । प्रातीतिककपालादिघटितस्य तादृशकूटत्वस्य प्रातीतिकत्वेन व्यावहारिकसम्बन्धेन तद्वत्त्वस्यालीकत्वात् । न च तथापि बाधोत्तरं व्यावहारिकरजतत्वस्य प्रातीतिकसंसर्गमादाय' इह रजत 'मिति विशिष्टबुद्ध्यापत्तिरिति वाच्यम् । रजतत्वीयप्रातीतिकसंसर्गस्यापि व्यावहारिकप्रातीतिकसाधारणेन तादात्म्यत्वरूपेणैव रजत्वोपरि भ्रमे बाधे च भानेन तादृशबाधे सति तादृशतादात्म्यत्वरूपेण प्रातीतिकतादात्म्यावगाहिन्या अप्युक्तविशिष्टबुद्धेरसम्भवात् । व्यावहारिकमिति । तदन्यूनसत्ताकमित्यर्थः । स्वाप्रभ्रमस्य स्वाप्नबाधे प्रातीतिकात्यन्ताभावविषयकत्वस्य पूर्वमुक्तत्वात् । अथव मिथ्यात्वं व्यावहारिकात्यन्ताभावघटितमेव । स्वाप्नबाधस्तु प्रातीतिकमेवा
For Private and Personal Use Only