________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे द्वितीयमिथ्यात्वम्] लघुचन्द्रिका । रमार्थरजतस्य कालविशेषमनन्तर्भाव्यैव निषेधात्तादृशनिषेधसामर्थ्याच्च 'प्रतिपन्नं प्रातीतिकरजतं मिथ्येति तैरुक्तम् । तथा च बाधकज्ञानस्योक्तभेदविषयकत्वं तेषां सम्मतमित्युच्यते । तथापि 'पूर्वापरविवरणवाक्ययोविरोध' इत्याशङ्कय उक्तविरोधं परिनिहीषुराह--अयमाशय इत्यादि । ( पदति । प्रातिपदिकेत्यर्थः । 'चैत्रो न पचती'त्यादावेकविभक्त्यन्तोपस्थाप्यस्याप्यन्योन्याभावाबोधकत्वात् । ) अ. मिलापति । नञ्युक्तवाक्यरूपाभिलापेत्यर्थः । पर्वतादौ वयादिप्रकारकानुमितेः 'पर्वतो वह्निमा'नित्यनेन तादात्म्येन वह्निमदादिप्रकारकधीजनकवाक्येनाभिलप्यमानत्वात् । 'उक्तवाक्यस्यापि संयोगेन वयादिप्रकारकधीजनकत्व' मिति प्राचीनमते तु यथाश्रुतमेव साधु । आर्थिकमिति । तथा चोक्तपञ्चपादिकावाक्येन तादृशभेदप्रतीतिरूपमेव बाधकप्रत्यक्षमभिलपितम् । तदभिप्रायेणैव पवाद्विवरणेऽपि तथोक्तम् । अत एव पञ्चपाद्यां सूचयतीत्युक्तम् । तेन हि पञ्चपादिकालता 'तस्य निरुपाख्यताबोधनपूर्वकं मिथ्यात्वं ज्ञापयति' 'नेदं रजतं मिथ्यैवाभासिष्टेति च हेतुवाक्यं पश्चादुक्तम् । परमार्थान्यत्वरूपनिरुपाख्यताबोधनद्वाराऽन्मिथ्यात्वं ज्ञापयतीति हेत्वर्थः । अर्थापत्तिप्रकारो नेदमित्यादिनोक्तः । यतो नेदं परमार्थरजतम् । अतो मिथ्यात्वेन प्रतिपन्नोपाधिनिष्ठात्यन्ताभावप्रतियोगित्वरूपेण इदमभासिष्टेति तदर्थः । एवं चार्थिकमुक्तमिथ्यात्वं बाधकोक्तभेदधीलभ्यमित्याशयेन तच्च बाधकज्ञाने रजतं प्रतिपन्नोपाधावभावप्रतियोगितयाऽवभासत इति व्याख्यानरूपं पूर्वविवरणवाक्यमविरुद्धम् । अत एवोक्तनिषेधसामर्थ्यात् 'प्रतिपन्नं रजतं मिथ्येति तत्रोक्तमिति भावः । प्रतीतिः भ्रमबाधकाले सर्वानुभवसिद्धधीः । प्रतीतरजतस्य प्रतीतरजतसाधारणरजतमात्रस्य रजतत्वेन पारमार्थिकत्वेन वेति शेषः । ननु, रजतत्वं प्रातीतिकं निषेध्यतावच्छेदकं व्यावहारिकं वा । आये तादृशबाधोत्तरं व्यावहारिकरजतत्वमादायेह रजतमिति विशिष्टबुद्ध्यापत्तिः । द्वितीये प्रातीतिकं तदादायोक्तापत्तिभ्रमबाधयोर्वैयधिकरण्यापत्तिश्च । न च द्वाभ्यां रजतत्वाभ्यां द्वे बाधबुद्धी जायेते । अनुभवविरोधादिति चेन्न । व्यावहारिकरजतत्वरूपेणैव रजतस्य शुक्तौ भ्रमे भानात् । तेन रूपेण च निषेधे वैयधिकरण्याद्यभावात् । भ्रमे हि व्यावहारिकरजतत्वस्य व्यावहारिकस्संसर्गः प्रातीतिकरजते भासते बाधज्ञाने
१. 'पदेति' एतदारभ्य 'अबोधकत्वा'दित्य-तं अधिकः पाठः क्वचित् कोशेषु न दृश्यते । किश्च एकविभक्त्यन्तत्वं सुबन्ततिङन्तयोरसम्भवि । यद्येतत् प्रामाणिकं तदा विभक्तित्वसमानाधिकरणमेकं यदेकवचनत्वं तदवच्छिन्नेत्यर्थकं व्याख्येयम् ।
For Private and Personal Use Only