________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे द्वितीयमिथ्यात्वम् । ] लघुचन्द्रिका ।
सति प्रपञ्चरूपस्वतादात्म्यधीविशेष्यत्वस्य शब्दतो लाभेन प्रपञ्चे सत्तादात्म्येन प्रतीयमानत्वस्यार्थतो लाभ इति भावः । न चाबाध्यत्वापेक्षया कालसम्बन्धित्वमेव लघु । तस्य कालिकविशेषणतारूपविलक्षणसम्बन्धप्रतियोगित्वरूपत्वात् । तथा चोक्तप्रतियोगित्वे सति कालसम्बन्धित्वमेव साध्यतामिति वाच्यम् । एतस्येव तस्यापि साध्यत्वसम्भवात् । लक्षणत्वपक्षेऽपि यथासन्निवेशे वैयर्थ्याभावात् प्रतिपन्नेत्यादिविवरणायुक्तौ उपाधिपदसार्थक्याय तस्याबाध्यार्थकत्वस्योक्तत्वाच्च । ननु, सदर्थकोपाधिपदेनापि प्रपञ्चस्यालीकत्वमादायार्थान्तरं दुर्वारम् । उक्तालीकत्ववादिना माध्यमिकेन प्रपञ्चे क्षणिकत्वादिभावनानिवर्त्यस्थिरत्वादेरिवाबाध्यत्वस्यापि शून्यत्वभावनानिवर्त्यस्य व्यावहारिकस्य स्वीकारणाबाध्यत्वोपहितप्रपञ्चे प्रपञ्चतादात्म्यधीविशेष्यत्वस्वीकारात् । तत्राह-शन्येत्यादि । शून्यवादिभिः माध्यमिकमतानुयायिभिः । अबाध्यत्वोपहितास्वीकारादिति शेषः । सदधिष्ठानकेति । अबाध्यत्वोपहितविशेष्यकेत्यर्थः । अवश्यक्लप्तेनार्थक्रियाकारित्वेनालीकव्यावृत्तेन 'सन् घट'इत्यादिप्रत्ययोपपत्तेरुक्ताबाध्यत्वं माध्यमिकेन न स्वीक्रियते । न च बाधात्पूर्वमबाध्यत्वं प्रपञ्चेऽस्त्येव तन्मतेऽपीति वाच्यम् । त्रिकालाबाध्यत्वस्यैवास्माभिनिवेशात् । तच्च कालानवच्छिन्नं बाधकज्ञानाविषयत्वरूपम् । तच्च ब्रह्मणि मन्मतेऽस्ति । तन्मते तु न कुत्रापीति भावः । न चैवं तन्मते शून्यभावना व्यर्थेति वाच्यम् । तस्याः परमकाष्ठापन्नवैराग्यहेतुत्वेन प्रपञ्चवरूपबाधकत्वेन चात्महानिरूपमोक्षसम्पादकत्वेन तन्मते स्वीकारात् । अनङ्गीकारादिति । अबाध्यविशेष्यकपूपश्चभ्रमस्य स्वीकारे पूपञ्चेऽप्यबाध्यतादात्म्यभ्रमोऽवश्यं स्वीकार्यः। पररूपराध्यासानुरोधात् । अन्यथा तु तत्र मानाभाव इति भावः । सदधिष्ठानकभूमानङ्गीकारमात्रं विशेषानुमानोपयुक्तम् । अनङ्गीकारादित्यन्तं सामान्यानुमानोपयुक्तम् । एवं मिथ्यात्वस्य सर्वप्रतिपन्नोपाधिघटितत्वे सति । पर्यवसितमिति । मिथ्यात्वमिति शेषः । प्रतिपन्नेत्यस्य तु प्रयोजनाभावादनिवेश इति भावः । यदधिकरणं यस्याधिकरणम्। संयोगेत्यादि । संयोगेन घटस्य यदधिकरणं तन्निष्ठात्यन्ताभावस्य समवायेन प्रतियोगितया समवायेन यत् घटस्याधिकरणं तन्निष्ठात्यन्ताभावस्य संयोगेन प्रतियोगितया च सिद्धसाधनमित्यर्थः । सूचितखादिति । तथा च प्रतिपन्नपदमुक्तार्थलाभायैवेति भावः । अन्तरेण विनैव । सम्बन्धावच्छेदको निवेश्याधिकरणता न प्रतीयत इति नेत्यर्थः । एवकारान्तर्भावेन तादृशार्थलाभात् । तादृशप्रत्ययाभावस्य न हीत्यनेन निषेधः । यथाश्रुतं त्वसङ्कतम् । सम्बन्धावच्छेदको विनापि अधिकरणताधीसत्वात् । ननु, गगनाधिकरणत्वाप्रसिद्ध्या तस्य मिथ्यात्वानुपपत्तिरत आह-तथा चे.
For Private and Personal Use Only