________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५.
अद्वैतमञ्जरी ।
ति। अहंतीति। प्रतीतिनिवेशे यावत्त्वमधिकरणे देयम् । अन्यथोक्ताधिकरणतायास्तच्छून्येऽपि प्रतीतिसम्भवेन सिद्धसाधनतापत्तेः । तथा च लाघवायेन सम्बन्धेन यदवच्छेदेन यस्य सम्बन्धि यत् तन्निष्ठेत्याद्येव निवेश्यम् । प्रतिपन्नपदेन तादृशसम्बन्धित्वेन प्रमायोग्यत्वस्य तादृशसम्बन्धित्वरूपस्य लाभात् । सम्बन्धित्वं भूतलादौ गगनादेरपीति न तत्राव्याप्तिरिति भावः । तेनैव सम्बन्धविशेषेणेति । प्रतियोगित्वमित्यत्रान्वेति । संयोगसमवायाधुभयसम्बन्धावच्छिन्नप्रतियोगित्वमादाय सिद्धसाधनात् तदन्यसम्बन्धानवच्छिन्नप्रतियोगित्वलाभाय एवकारः। तेनैवावच्छेदकविशेषेणेति । तदन्यावच्छेदकानवच्छिन्नेत्यर्थः । तस्य तदधिकरणकत्वेऽन्वयः । सिद्धान्ते अत्यन्ताभावमात्रस्य सर्वदेशकालवृत्तित्वेनावच्छिन्नवृत्तिकान्यत्वात्तदवच्छिन्नेत्यनुक्त्वा तदन्यानवच्छिन्नेत्युक्तम् । वस्तुतस्तु, अवच्छिन्नवृत्तिकान्यत्वमेव तदधिकरणकात्यन्ताभावे देयम् । अन्यथा व्याप्यवृत्तिसाधारणपक्षकानुमाने व्याप्यवृत्त्यंशे यथोक्तसाध्यासम्भवादिति ध्येयम् । ननु , नोक्तसिद्धसाधनस्यावकाशः । प्रकृतानुमानावतारात्पूर्वमेव अवृत्तिगगनादावत्यन्ताभावप्रतियोगित्वे वृत्तिमत्सु स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वे च वक्ष्यमाणरीत्या मानाभावातत्राह-यदि पुनरित्यादि । न स्यात् नास्ति । मिथ्यात्वानुमानावतारात् पूर्वमिति शेषः । ननु, गगनादेरप्रत्यक्षत्वमते तदभावस्य प्रत्यक्षत्वासम्भवेऽपि गगनादिकं भूतलादिनिष्ठात्यन्ताभावप्रतियोगि। भूतलादिनिष्ठस्य वृत्तिनियामकसम्बन्धस्याप्रतियोगित्वात् । नित्यरूपादिनिष्ठात्यन्ताभावप्रतियोगि। नित्यरूपादिनिष्ठसम्बन्धाप्रतियोगित्वात्तज्जलादिवदित्याद्यनुमानं मानमस्तु तत्राह-अनुमाने चेति । तर्काभावादिति। अप्रत्यक्षस्यापि गुरुत्वादेस्तेजआदावत्यन्तामावोऽनुमीयते । तत्र तदसत्त्वे गुरुत्वाद्यापत्त्या पतनाद्युत्पत्त्याद्यापत्तिरूपतर्कसत्त्वात् । प्रकृते तु न तर्क इति भावः । अन्यथेति शेषः । सामान्यतो दृष्टमात्रेण तर्कहीनेन अन्वयव्यतिरेकिणा गगनतज्जलान्यतरत्वादिहेतुना । नन्वेवमाकाशादौ घटादिभेदोऽपि न स्यात्, अयोग्याधिकरणे भेदस्याप्रत्यक्षत्वात् अनुमानस्याप्रयोजकत्वाच्च तत्राह—तव्यतिरेकेणेति । आकाशे घटाभेदे घटत्वस्यातिप्रसक्त्या तद्रूपेण कपालादिकार्यताप्रत्यक्षरूपकार्यस्य व्यतिरेकस्स्यात् । नित्यसाधारणरूपस्य कार्यतानवच्छेदकत्वादिति भावः । आकाशात्यन्ताभावस्य त्वस्वीकारे न तथेत्यर्थः । एवमिति । न घटादेरत्यन्ताभावसामानाधिकरण्यमित्यग्रिमेणान्वेति । एवंशब्दार्थ प्रत्यक्षानुमानाद्यभावरूपं हेतुं प्रकटयति-संयोगेत्यादि । ननु, प्रतियोग्यत्यन्ताभावयोविरोधित्वं सम्बन्धविशेषमन्तर्भाव्यैव कल्पनीयम् । तथाहि-विरोधित्वं सहानवस्थानम् । तदपि द्विविधम् । साक्षात ज्ञानद्वारकं च ।
For Private and Personal Use Only