SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे द्वितीयमिथ्यात्वम् लघुचन्द्रिका। तत्राद्यं तद्देशतत्कालावच्छेदेन तेन सम्बन्धेन तद्रूपविशिष्टप्रतियोगिनोऽधिकरणे । तदेशकालावच्छेदेन वर्तमानत्वस्याभावः तत्सम्बन्धतद्रूपावच्छिन्नप्रतियोगिताकात्यन्ता भावनिष्ठः । द्वितीयं तु तादृशाधिकरणनिश्चयक्षणे तदुत्तरक्षणे च तादृशाभावस्य तादृशवर्तमानत्वज्ञानाभावः । तथा चोक्तविरोधितयोरन्यथानुपपत्तिरेव संयोगादिना घटाद्यधिकरणे समवायादिना तदभावसाधिका तत्राह-लाघवेनेत्यादि । लाघवेन अभावप्रतियोगितामात्रस्य सम्बन्धावच्छिन्नत्वाकल्पनया सम्बन्धविषयत्वघटितरूपेणाभावबुद्धेः प्रतिबन्धकत्वाकल्पनया च लाघवसम्भवेन । घटात्यन्ताभावत्वेन घटत्वाचच्छिन्नप्रतियोगिताकात्यन्ताभावत्वेन । घटसामानाधिकरण्यविरोधित्वेति। सामानाधिकरण्यघटितस्य साक्षाद्विरोधित्वस्य ज्ञानद्वारकविरोधित्वस्य चेत्यर्थः । देशकालावच्छेदं सम्बन्धं तदवच्छिन्नत्वं चानन्तर्भाव्यैवोक्तविरोधिते वाच्ये । उक्तलाघवसम्भवादिति भावः । गौरवात् संयोगादिनानासम्बन्धावच्छिन्नप्रतियोगिताकानन्ताभावानां कल्पनागौरवात्, सम्बन्धघटितरूपेणाभावबुद्धेः प्रतिबन्धकत्वकल्पने. संयोगादिसम्बन्धावच्छिन्नत्वघटत्वाद्यवच्छिन्नत्वयोः प्रतियोगितांशे विशेषणविधया निवेश्यतया प्रतियोगिताविषयतायामेकविषयतानिरूपितत्वविशिष्टस्यापरविषयतानिरूपितत्वस्य विशेषणत्वे वाच्ये विनिगमकामावेन अवच्छेदकभेदात् प्रतिबन्धकताभेदे गौरवाच्च । ननु, घटसंयुक्त समवायेन घटो नास्तीति प्रतीत्यन्यथानुपएत्याऽभावस्य सम्बन्धावच्छिन्नप्रतियोगिताकत्वं सिध्यतु । किं चाभावबुद्धेस्सम्बन्धावच्छिन्नप्रतियोगित्वविषयकत्वमनन्तर्भाव्यैव प्रतिबन्धकत्वे संयोगेनात्र घटो नास्तीति बुवेरपि समवायेनात्र घट इति धीप्रतिबन्धकत्वापत्तिः । अथ सम्बन्धावच्छिन्नमतियोगित्वविषयिका धीः न प्रतिबन्धिकेति चेत् । तर्हि समवायेन नात्र घट इति बुद्धेरप्युक्तप्रतिबन्धकत्वं न स्यात्तत्राह-घटसमवायाधभावमात्रविषयकतयति । घटसमवायत्वाद्यवच्छिन्नप्रतियोगिताकाभावत्वाद्यवच्छिन्नप्रकारतानिरूपितभूतलादिवि शेष्यताकत्वेनेत्यर्थः । प्रतीत्युपपत्तेः 'समवायेनात्र घटो नास्तीतिप्रतीतेविषयोपपत्तेः, 'समवायेनात्र घट' इतिधीप्रतिबन्धकत्वोपपत्तेश्च । मात्रेत्यनेन सम्बन्धावच्छिन्नप्रतियोगिता न विषयो न वा तद्धटितरूपेण प्रतिबन्धकतेत्यर्थः । 'शिखी चैत्रो नष्ट' इत्यादौ चैत्रीयशिखादे शप्रतियोगित्वमिव समवायेन घटो नास्तीत्यादौ समवायविशिष्टघटत्वादिरूपेण घटादेर्भानेऽपि घटीयसमवायादेरत्यन्ताभावप्रतियोगित्वं मातीति समवायेनात घट इति ज्ञानं प्रति घटसमवायोऽत्र नास्तीति निश्चयस्य परैरपि प्रतिबन्धकत्वं वाच्यम् । परं तु स्वरूपसम्बन्धावच्छिन्ना या घटसमवायत्वावच्छिन्ना प्रतियोगिता तन्निरूपकाभावविषयकत्वेन । तथा च लाघवादुक्तसम्बन्धावच्छि For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy