________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
अद्वैतमञ्जरी ।
नत्वमनन्तर्भाव्यैव तदुच्यताम् । न च घटसंयुक्तादिदेशे केनचित्सम्बन्धेन घटसमवायस्य सत्त्वात् तदभावोऽपि तत्र न सम्भवतीत्युक्तधीप्रमात्वोपपत्तये समवायेन घटाभाव एव तद्विषय इति वाच्यम् । स्वरूपसम्बन्धेन हि परैर्घटसमवायस्याभावो यः स्वीक्रियते स एवास्माभिर्घटसमवायाभाव उच्यते। तस्यैव घटसमवायीयदैशिकसाक्षात्सम्बन्धविरोधात् । अत एव केनचित्सम्बन्धेन घटादेः सर्वत्र जन्ये मूर्ते च सत्त्वात्तत्र घटसामान्याभावधीप्रमात्वोपपत्तये सम्बन्धविशेषावच्छिन्नप्रतियोगिताऽवश्यं वाच्येति परा स्तम् । घटीयदैशिकसाक्षात्सम्बन्धसामान्यामावस्यैव घटसामान्याभावत्वात् । तादृशश्च घटस्य सम्बन्धः संयोगः समवायश्च । न तु कालिकी दिनिष्ठा वा विशेषणता । न वा स्वाश्रयसंयोगादिः । अत एव तद्वत्यपि घटो नास्ती' ति धीः प्रमात्वेन सर्वसिद्धा । ननु, संयोगेन रूपं नास्तीत्यादौ रूपीयसंयोगादेरप्रसिद्ध्या तदभावो न विषयः । न च संयोगाद्यंशे रूपीयत्वादेर्भूमत्वं तत्रेति वाच्यम् । तादृशप्रतीतेः सवाशे प्रमात्वस्य सर्वजनसिद्धत्वादिति चेत्सत्यम् । रूपीयत्वादिना संयोगाद्यभावस्यैव तत्र विषयत्वात् । व्यधिकरणधर्मावच्छिन्नाभावस्वीकारात् । परैरपि तत्र व्यधिकरणसम्बन्धस्य प्रतियोगितावच्छेदकत्वस्वीकारात् । प्रतियोग्यंशे विशेषणतानापन्नस्यैव व्यधिकरणधर्मस्य प्रतियोगितांशे अवच्छेदकतया विशेषणत्वेन भूमत्वाभावात् । प्रतियोग्यंशे विशेषणस्यैव उक्तविशेषणत्वमिति नियमेऽपि व्यधिकरणधर्मावच्छिन्नाभावधीमात्रस्य प्रतियोग्यशे तादृशधर्मभूमत्वस्वीकारेण प्रकृतेऽपि भूमत्वे बाधकाभावात् न दोषः । न च घटो न पट इत्यादिनिश्चयकालेऽपि पटत्वेनात्र घटो नास्तीति ज्ञानोत्पत्तेर्घटादौ पटत्वादिवैशिष्टयाभाव एवोक्तज्ञाने विषयः । वैशिष्टयस्य साहित्यरूपस्य तृतीयार्थत्वेन तदत्यन्ताभावबोधने घटपदोत्तरं न सतम्यपेक्षेति वाच्यम् । उक्तनिश्चयकाले घटत्वादिविशिष्टे पटत्वादिभानासम्भवेऽपि एकत्र द्वयमिति रीत्या शुद्धघटादौ घटत्वपटत्वाद्युभयं विशेषणीकृत्योक्तज्ञानोत्पत्तिसम्भवात् उक्तज्ञाने घटादौ पटत्वादिवैशिष्टयाद्यभावभाने अत्र घटः पटत्वनास्तीत्याकारकस्यैकत्र द्वयमिति रीत्या घटत्वपटत्वाद्युभयविशिष्टविषयकस्य सत्त्वेऽप्युतज्ञानोत्पत्त्यापत्तेरित्याशयः । ननु, 'समवायेन घटो नास्ती'त्यादिज्ञाने प्रतियोगितांशे सम्बन्धावच्छिन्नत्वाभाने घटसमवायत्वाद्यवच्छिन्नत्वमपि न भातीति कुतो नो च्यते । तादृशावच्छिन्नत्वेन पराभ्युपगतप्रतियोगिताव्यक्तिसम्बन्धेन घटसमवायविशिष्टस्याभावस्य घटसमवायविरोधित्वं उक्तसम्बन्धेन घटसमवायत्वमात्रेण चावच्छिन्नाया अभावांशे प्रकारताया एव प्रतिबन्धकतावच्छेदकत्वमित्यस्य वक्तुं शक्यत्वात् । यदि च प्रतियोगिताया धर्मावच्छिन्नत्वं सर्वानुमाविकमित्युच्यते तदा
For Private and Personal Use Only