SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र ० दे द्वितीयमिथ्यात्वम् ] लघुचन्द्रिका। सम्बन्धावच्छिन्नत्वमपि तथेति वक्तुं शक्यते इति चेत् अत्रोच्यते । जले वह्निर्नास्तीतिवज्जले द्रव्यं नास्तीत्यस्यापि प्रमात्वं स्यात् । यत्प्रतियोगिताव्यक्तिविशेषसम्बन्धेन वह्निविशिष्टो योऽभावस्तस्य तेन सम्बन्धेन द्रव्यात्मकवह्निविशिष्टत्वात्।अथ वह्नित्वावच्छिन्नं प्रत्येव सम्बन्धस्तत्प्रतियोगिता। न तु द्रव्यत्वावच्छिन्नं प्रतीति चेत्तहि तत्प्रतियोगिता वह्नित्वावच्छिन्नप्रतियोगिताका । न तु द्रव्यत्वावच्छिन्नप्रतियोगिताकेत्येवोक्तवाक्यार्थः । तथा च वह्नित्वावच्छिन्नप्रतियोगिताकत्वमपेक्ष्य वह्नित्वावच्छिन्नत्वमेव लघु तत्प्रतियोगितायां कल्प्यताम् । किं च विशिष्टस्य वैशिष्टयमिति रीत्या ज्ञानस्य विशेष्ये विशेषणं तत्रापि विशेषणान्तरमिति रीत्या ज्ञानाद्वैलक्षण्यसिद्धये विशिष्टस्येत्यादिज्ञाने विशेषणतावच्छेदकावच्छिन्नप्रतियोगिताकत्वरूपेण विशेषणसम्बन्धो भातीति स्वीक्रियते । तथा चाभावप्रत्यक्षस्य विशिष्टस्येत्यादिज्ञानत्वनियमात् घटोऽत्र नास्तीत्यादिप्रत्यक्षस्य घटत्वावच्छिन्नप्रतियोगिताकत्वरूपेणानुयोगिताविशेषरूपोऽभावे वटादेस्सम्बन्धो भाति । घटवदित्यादौ संयोगादेर्घटत्वावच्छिन्नप्रतियोगिताकत्वरूपेण भानवत् । न चैवं कम्बुग्रीवादिविशिष्टवदित्यस्येव कम्बुग्रीवादिविशिष्टमत्र नास्तीत्यस्यापि विशिष्टस्येत्यादिज्ञानस्य प्रमात्वापत्तिः । गुरुधर्मस्याभावनिष्ठानुयोगितासम्बन्धप्रतियोगितानवच्छेदकत्वे संयोगादिसम्बन्धप्रतियोगितायामप्यनवच्छेदकत्वेन द्वयोरप्युक्तज्ञानयोरप्रमात्वं स्यादिति वाच्यम् । गुरुत्वज्ञाने सत्यप्युक्तज्ञानयोरुत्पत्त्या प्रमात्वस्येष्ठत्वात् । गौरवस्य कारणतावच्छेदकत्वादिविरोधित्वेऽपि सम्बन्धप्रतियोगितावच्छेदकत्वाविरोधित्वात् । अथ वा विशिष्टस्येत्यादिज्ञाने विशेषणतावच्छेदकं विशेषणान्वयिनि विशेष्ये विशेषणतया भाति । यदेव हि स्वविशेष्यविशेष्ये विशेषणं तत् विशेषणम् । तदन्यत्तु प्रकारीभूतमप्युपलक्षणमुपाधिर्वा । तथा च घटः प्रमेयः दण्डिमदिदमित्यादौ विशेषणविशेषणतावच्छेदकयोरेकजातीयेन तादात्म्यादिसम्बन्धेन प्रमेयादौ विशेषणत्वेऽपि संयोगादिसाक्षात्सम्बन्धेन दण्डादेरिदमादौ बाधकाले स्वाश्रयसंयोगादिपरंपरासम्बन्धेनापीदमादौ विशिष्टस्येत्यादिरूपोक्तज्ञाने दण्डादेर्भानवत् घटोऽत्र नास्तीत्यादो घटाद्यभावे स्वप्रतियोगितानिरूपितानुयोगितासम्बन्धेन घटादेः प्रकारत्वेऽपि घटत्वादेस्तेन सम्बन्धेन तत्र बाधात् स्वाश्रयप्रतियोगितानिरूपितानुयोगितासम्बन्धेन तस्य प्रकारत्वे जले द्रव्यं नास्तीत्यस्यापि प्रमात्वापत्तेः । अन्यस्य चैकजातीयसम्बन्धस्य घटाभावे घटत्वादेर्वक्तुमशक्यत्वात् स्वावच्छिन्नप्रतियोगिताकानुयोगितैव तस्य तत्र सम्बन्ध उच्यते । 'दण्डिमदिदमित्यादावपि स्वावच्छिन्नप्रतियोगितानिरूपितानुयोगितासम्बन्धेन इदमादौ दण्डादेर्भानमिष्टम् । कदाचित्संयोगादेरिव तस्याप्यमापात् । तस्य दण्डावच्छिन्नमति For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy