________________
Shri Mahavir Jain Aradhana Kendra
५४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
योगिताकाधिकरणतात्वात् सामानाधिकरण्येन सङ्ख्याविशिष्टं परिमाणमत्र नास्तीत्यादौ तु, स्वप्रतियोगिकत्वसम्बन्धेनैवैकस्मिन्नभावे सङ्ख्यापरिमाणयोर्भानम् । तस्य सम्बन्धस्य तत्राबाधात् । ननु, 'विशिष्टं केवलादन्य' दिति मते विशिष्टस्येत्यादिज्ञाने विशिष्टस्य विशेषणत्वम् । 'विशेष्ये विशेषण' मित्यादिज्ञाने तु न तस्य विशेषणत्वम् । किंतु भूतलादौ शुद्धघटादेः । तत्र घटत्वादेरित्यस्य वक्तुं शक्यत्वान्नोक्तयुक्तीनामवकाश इति चेत्सत्यम् । तथापि संयोगसम्बन्धेनेत्यादिमूले नानुपपत्तिः । घटात्यन्ताभावत्वेनेत्यस्य घटत्वविशिष्टप्रतियोगिताका भाव त्वेनेत्यर्थकत्वात् । घटसमवायाद्यभावेत्यस्यापि घटसमवायत्यादिविशिष्टप्रतियोगिताकाभावेत्यर्थकत्वात् । घटत्वादेः प्रतियोगितानवच्छेदकत्वेऽपि तद्विशिष्टस्य स्वाधिकरणनिष्ठाभावप्रतियोगित्वेन मिथ्यात्वसम्भवेनोक्तावच्छेदकत्वोक्तौ मूलकारस्यौदासीन्यात् । जले वह्रित्वविशिष्टस्याभावसत्त्वेऽपि द्रव्यत्वविशिष्टस्याभावासत्त्वात् 'जले द्रव्यं नास्तीति बुद्धेनापत्तिः । ननु, घटात्यन्ताभावत्वेनैव घटविरोधित्वस्वीकारेऽपि भूतलादौ घटात्यन्ताभावोऽस्तु । घटस्यावृत्तित्वस्वीकारेणोक्तविरोधित्वोपपत्तेः तलाह- आधाराधेयभावस्येति । भूतलघटाद्येोरित्यादिः । ननु, घटसंयोगी घटात्यन्ताभाववान् । घटसमवायाभावान्नित्यरूपवदित्यनुमेयं तत्राह-उक्तयुक्तेरिति । तर्काभावात् । भूतलं घटध्वंसवत् । कपालभूतलान्यतरत्वात् कपालवदित्यनुमानापत्तेः । तद्व्यतिरेकेऽनुपपत्त्यभावात् । ननु घटोत्पादानन्तरं पुनर्घटोत्पादवारणाय समवायेन घटं प्रति घटः प्रतिबन्धकः । तत्सम्बन्धावच्छिन्नतदभावः कारणम् । तथा च घटसंयुक्तकपालेषु घटोत्पत्तिर्न स्यात् । उक्तप्रतिबन्धकाभावघटितसामम्यभावादित्यत आह-उक्तेति । एकसम्बन्धं प्रत्यपरसम्बन्धस्यैव प्रतिबन्धकतासंभवेन तदभावस्यैव प्रतिबन्धकाभावविधया प्रयोजकत्वादित्यादियुक्तेरित्यर्थः । अमलयोरिति । औपाधिकभेदवतोस्तदवच्छिन्नवृक्षयोर्वेति शेषः । अग्रावच्छिन्नवृक्षात् मूलावच्छिन्नवृक्षे भेदस्वीकारेण तयोरेव संयोगतदभावौ भासेते इति नकुत्राप्यव्याप्यवृत्तित्वमिति भावः । उपपत्तेरिति । इत्यालोच्यत इति शेषः । सन्मात्रनिष्ठेति । सत्त्वव्यापकेत्यर्थः । अधिकरणमेवाभाव इति पक्षेऽपि केवलस्य सद्रूपस्याभावत्वविशिष्टेन सद्रूपेण तादात्म्यसम्बन्धसत्त्वात्तद्व्यापकत्वोपपत्तिः । न च उक्तपक्षे 'नेह नाने' त्यादिश्रुत्यनुपपत्तिः । तया ब्रह्मणि प्रपञ्चाभावाधारत्वबोधनादिति वाच्यम् । उक्तपक्षे घटाद्यभावस्य भूतलादौ तादात्म्यसम्बन्थस्यैव स्वीकारेण ब्रह्मणि प्रपञ्चाभावतादात्म्यस्यैवोक्तश्रुत्या बोधनात् । उक्तं हि न्यायकुसुमाञ्जलौ अभावीयसम्बन्धविचारप्रसङ्गे– 'परस्य तादात्म्यमस्तीतिचे' दिति । परस्याधिकरणस्वरूपाभाववादिनो भट्टादेर्मत इति तत्र टीकाकारः । अधिकरणातिरि
For Private and Personal Use Only
-