SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे द्वितीयमिथ्यात्वम् ] लबुचन्द्रिका । काभावपक्षेऽपि चैत्रे गोशून्यता नास्तीत्यादौ गवादिरूपाभावस्याधारत्वेन चैत्रादिप्रत्ययाभावात् स्वामित्वसम्बन्धस्य वृत्त्यनियामकत्वाच्चाभावधीमात्रस्याभावाघारत्वविषयकत्वानियमात् । घटाभावे न घट इत्यादौ अभेदेऽप्याधाराघेयत्वस्य सर्वैरपि स्वीकार्यत्वेन उक्तश्रुत्यादिजन्यज्ञानस्य ब्रह्मादावभावाधारत्वविषयकत्वस्योक्तपक्षद्वयेऽपि सम्भवाच्च । अत्र यद्धर्मावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वं सत्त्वव्यापकतावच्छेदकं तद्धर्मवत्त्वं मिथ्यात्वम् । तेन मेयत्वादिरूपेण व्यापकतामादाय न सिद्धसाधनम् । न च यस्या अभावव्यक्तेस्सद्वृत्तिभेदप्रतियोगितावच्छेदकत्वमनवच्छिन्नं नास्ति तद्व्यक्तिप्रतियोगित्वं मिथ्यात्वमित्येव वक्तुं शक्यम् । घटादिमति पूर्वक्षणवृत्तित्वविशिष्टस्य घटाद्यभावस्याश्रयात् भेदो वेदान्तिमतेऽप्यस्तीत्यतोऽनवच्छिन्नमित्युक्तम् । एवं च घटसंयुक्तादौ समवायादिना घटाद्यभावनिराकरणं व्यर्थम् । तदभावव्यक्तेरतथात्वेन सद्वृत्तिभेदप्रतियोगितावच्छेदकत्वेन तामादाय सिद्धसाधनाभावादिति वाच्यम् । विशेषणतादिव्यधिकरणसम्बन्धेन घटाद्यभावव्यक्तेः केवलान्वयित्वेन तामादाय सिद्धसाधनात्। एवं उक्तानुमानस्योक्तमिथ्यात्वसाधकत्वे । बाध्यबाधकभाव इति । भावाभावयोस्सामानाधिकरण्यज्ञाने सति तयोरेकज्ञानमपरज्ञानस्य न बाधकमतउक्तज्ञानाभावविशिष्टं भावाभावयोर्विरोधविषयकं वा तयोरेकस्य ज्ञानमपरस्य ज्ञाने बाधकं वाच्यम् । तादृशज्ञानश्च न मिथ्यात्वज्ञानवतां सम्भवतीति भावः । वाच्यामिति । अधिकसत्ताकाभावेन अन्यूनसत्ताकाभावेन वा घटितं मिथ्यात्वमिति पक्षयोराद्यपक्षे इति शेषः । इदं भिन्नसत्ताकेत्युत्तरग्रन्थान्वयि । न व्यावहारिक इति । किंतु प्रातीतिक इति शेषः । रजतस्य व्यावहारिकलेति । रजते कल्पितस्य व्यावहारिकत्वस्य । अपहारे उच्छेदे । प्रातीतिकसत्त्वेति । प्रातिभासिकस्वरूपेत्यर्थः । पुरोवृत्तिप्रतीतरजतस्येत्यनुषज्यते । बाघोत्तरेति । उक्तज्ञानोत्तरेत्यर्थः । स्यादिति । तथा च समानसत्तामनन्तर्भाव्य प्रातीतिकान्यामावस्यैव भावविरोधित्वं स्वीकत्य तद्ज्ञानस्य भावबाधकत्वं वाच्यम् । अतः स्वाधिकसत्ताकात्यन्ताभावस्यापि भावविरोधित्वात् तद्धटितमिथ्यात्वमनुपपन्नमिति भावः । समानसत्ताकयोभीवाभावयोर्विरोधेऽपि न तादृशयोरेव बाध्यबाधकधीविषयत्वमुच्यते । येन प्रातीतिकत्वविशिष्टरजतस्य व्यावहारिकाभावधीर्वाधिका न स्यात् । किं त्वन्यादृशयोः । तथाहि-अभावज्ञानस्य भावज्ञानं प्रति बाधकत्वं भावोपादानाज्ञाननिवृत्तिप्रयोजकान्तर्गतत्वं वा, भावभ्रमे भ्रमत्वज्ञापकत्वं वा, अधिष्ठानधीविधया भावज्ञानोच्छेदकत्वं वा । आये ' अधिकसत्ताकरजतात्यन्ताभावव्याप्यं शुक्तित्व' मित्याकारकेण निश्चयेनोबुद्धसंस्कारेण वा विशिष्टस्य इयं शुक्ति'रित्याकारकसाक्षात्कारस्य प्रातिभासिकरज For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy