________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तोपादानाज्ञाननिवर्तकत्वेन व्यावहारिकाभावज्ञानस्य प्रातिभासिकरजतादिधीबाधकत्वं नानुपपन्नम् । द्वितीयेऽनुपपत्त्यभावस्त्वयैव स्वीकृतः । व्यावहारिकामावज्ञाने रजतव्यावहारिकत्वापहारकत्वस्योक्तत्वात् । व्यावहारिकत्वं हि विश्वमिथ्यात्वनिश्चयपूर्ववर्तिनो मिथ्यात्वनिश्चयस्याविशेष्यत्वम् । तदपहारश्चोक्तनिश्चयविशेष्यत्वादेव। तथा च मिथ्याविषयकत्वरूपभ्रमत्वं रजतज्ञाने उक्ताभावज्ञानेन ज्ञापितमिति स्वीकृतमेवेत्याशयेनाह-तत्रेयमिति । प्रमयेति । शुक्तित्वे रजतीयव्यावहारिकात्यन्ताभावव्याप्यताविषयकेन निश्चयेनोबुद्धसंस्कारेण वा सहितयेति शेषः । सत्त्वस्यापीत्यपिना व्यावहारिकत्वस्य समुच्चयादुक्तरीत्या रजतज्ञाने व्यावहारिकाभावज्ञानस्य भ्रमत्वज्ञापकत्वमुक्तम् । तदसत्त्व इति । असत्त्वमुच्छेदः । आवश्यकत्वादिति । परिणामिन उच्छेदे परिणामस्याप्युच्छेदस्तयोस्तादात्म्यादिति भावः । अत एव अज्ञानतत्प्रयुक्तोच्छेदयोरविप्रकर्षादेव । व्यावहारिकसत्त्वापहारे मिथ्यात्वनिश्चये । अधिष्ठानाज्ञानेति । व्यावहारिकेण तिक्तत्वाभावेन विशिष्टस्य गुडस्य जीवब्रह्मैक्यस्य चाज्ञानेत्यर्थः । प्रतिबन्धकदोषोत्सारणाधीनादधिष्ठानसाक्षात्कारादित्यादिः । एतेन तृतीयेऽपि बाधकत्वे नाभावस्य भावविरोधित्वापेक्षेति सूचितम् । निवृत्तौ उच्छेदे । जीवन्मुक्तस्य तु नाज्ञानमुच्छिन्नम्। संस्कारात्मना सत्त्वात् । अथ वा प्रारब्धभोगोपयोगिदेहादिकमज्ञानशब्देनोच्यते । तथा च 'भूयश्चान्ते विश्वमायानिवृत्ति'रितिश्रुत्या विश्वमायानिवृत्त्युत्तरं भूयोऽपि देहादिनिवृत्त्युक्तेः 'प्रारब्धनाशात् प्रतिभासनाश'इति स्मतेश्च देहाधुच्छेद एव प्रपञ्चाप्रतीतिप्रयोजक इति भावः । अत्रेदमवधेयम् । यत्क्षणे यस्याज्ञानस्य उच्छेदस्तत्क्षणे तत्प्रयुक्तस्यावश्यमुच्छेद इ. ति न नियमः । जीवन्मुक्तावज्ञानसंस्कारस्वीकारपक्षे व्यभिचारात् । नापि यदज्ञानप्रयुक्तोच्छेदप्रतिबन्धकशून्ये यत्क्षण इत्यादिनियमः । विदेहत्वप्रयोजकब्रह्मसाक्षात्कारोत्पत्तिक्षणे 'ब्रह्म साक्षात्करोमी'त्यनुभवेनाज्ञानासत्त्वेऽपि तत्प्रयुक्तमनःपरिणामरूपब्रह्मसाक्षात्कारादिसत्त्वेन व्यभिचारात्। एतादृशोत्पत्तिक्षणे हि नोक्तप्रतिबन्धकमस्ति तद्वितीयक्षणे विदेहत्वसम्पत्त्या सर्वदृश्योच्छेदात् । किं तु यत्क्षणे या प्रमा तत्क्षणे अवश्यं तत्समानविषयकाज्ञानोच्छेदः। उक्तप्रतिबन्धकशून्ये यत्क्षणे यस्याज्ञानस्योच्छेदः तदव्यवहितोत्तरक्षणे अवश्यं तत्प्रयुक्तस्योच्छेदः । या प्रमा यदज्ञानप्तमानविषयिका सा तदज्ञानाधिकरणक्षणावृत्तिः । यो यस्तत्प्रमावानुक्तप्रतिवन्धकशून्यक्षणः सः तदज्ञानप्रयुक्तदृश्याधिकरणकालपूर्ववृत्तिभिन्न इति यावत् ।तथाचाज्ञानसमानविषयकमनोवृत्त्युत्पत्तिक्षणे मनोवृत्यादिसत्वेऽपि न क्षतिः । अज्ञानस्यावरणविक्षेपरूपशक्तिद्वयस्वीकारपक्षे तु आवरणशक्तेरेव सविषयकत्वात् आद्यनियमे
For Private and Personal Use Only