SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र° दे द्वितीयमिथ्यात्वम् । ] लघुचन्द्रिका । अज्ञानस्थाने अज्ञानीयावरणशक्तिर्वाच्या। यस्या आवरणशक्तस्समानविषया या प्रमा सा तस्था अधिकरणक्षणावृत्तिः । तेन विक्षेपशक्तेस्तदज्ञानस्य च जीवन्मुक्तिकाले सत्त्वेऽपि न क्षतिः । द्वितीयनियमे तु तदज्ञानप्रयुक्तस्थाने तदज्ञानतदीयविक्षेपशक्तितत्प्रयुक्तेति त्रितयं वाच्यम् । एतेन प्रतिपन्नोपाधावित्यादेरुक्तव्याख्यानेन । प्रतिपन्ने ब्रह्मसम्बन्धितया ज्ञाते । परमार्थतः पारमार्थिकत्वेन। स्वरूपेण चेति शेषः । अभावादिति । भावः प्राप्तिः । 'भूप्राप्ता वित्यनुशासनादिति तदभावादित्यर्थः । तथा च प्रतिपन्नोपाधौ कालादौ ब्रह्मसम्बन्धाभावस्य सर्वसम्मतत्वात् सम्बन्धसामान्याभावस्यैव सम्बन्धिसामान्याभावत्वात् तादृशाभावप्रतियोगित्वस्य ब्रह्मणि सत्वादतिव्याप्तिरिति भावः । निर्धर्मके अभावप्रतियोगित्वप्रयोजकधर्मवद्भिन्ने । येन रूपेण यस्याभावः प्रत्यक्षः येन वा हेतुना यत्राभावप्रतियोगित्वमनुमीयते तद्रूपमुक्तप्रयोजकम् । ब्रह्मणि तु तन्नास्त्येव । केनापि रूपेण ब्रह्मणोऽभावप्रत्यक्षाभावात् । शुद्धब्रह्मणस्तु नाभावः प्रत्यक्षस्सम्भवति । प्रतियोगितानुयोगितावच्छेदकरूपाभ्यामेवाभावः प्रत्यक्ष इति नियमात् । उपहितब्रह्मतादात्म्यादेः ब्रह्मणि सत्त्वेऽपि न तस्याभावप्रतियोगितानुमापकत्वम् । अप्रयोजकत्वादिति भावः । तत्र तत्स्वरूपे । श्रुतीति। स्वरूपात्मकसत्यत्वादिबोधक श्रुतीत्यर्थः । उक्तं हि पञ्चपाद्याम्-'आनन्दो विषया नुभवो नित्यत्वं चेति ब्रह्मणो धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते' इति । चकारात् सत्यत्वादिसङ्ग्रहः । पृथगिवेति निरुपाधीष्टत्वादिविशिष्टरूपेण कल्पितेन केवलचिद्रूपात् भिन्ना इवेत्यर्थः । केवलचिदेव हि उक्तविशिष्टरूपतादात्म्योपलक्षिता सती आनन्दरूपा। शुद्धायामपि चिति निर्विकल्पकवृत्तितन्नाश्याज्ञानयोर्विघयत्वस्येव विशिष्टचित्तादात्म्यस्यापि सत्त्वात् विशिष्टकेवलयोस्तादात्म्यस्यावश्यकत्वात् । धर्मान्तरस्य शुद्धचित्यस्वीकारेऽपि विशिष्टतादात्म्यादिस्वीकारात् । यत्तु, केवलचिदेव निरुपाधीष्टत्वाकारवृत्त्या भासमाना आनन्दरूपा । आवरणविरोधिविशिष्टत्वाकारवृत्त्या ज्ञानरूपा । एवं मिथ्यात्वाभावविशिष्टत्वाकारवृत्तिभिः सत्यत्वादिरूपा । तादृशेष्टत्वादीनां शुद्धब्रह्मण्यसत्त्वेऽपि तादृशेष्टचित्तादात्म्यसत्त्वात् तदाकारवृत्तिनिवेश्या । यदि चोक्ततादात्म्यं तदुपहितचित्येव स्वीक्रियते न तु शुद्धचितीति पक्षः स्वीक्रियते, तदा उक्ततादात्म्याकारवृत्तिद्वारकशुद्धब्रह्माकारवृत्तिनिवेश्या । अत एव पृथगिवेत्यस्यान्तःकरणवृत्त्युपाधौ भिन्ना इवेति विवरणकारव्याख्यानमिति । तन्न । तत्तद्रूपोपलक्षितचित एवानन्दादिरूपत्वसम्भवे तत्तदाकारवृत्त्युपलक्षितस्य तद्रूपत्वकल्पने गौरवात् । विवरणे वृत्तिनिवेशस्तु, निरुपाधीष्टत्वादौ प्रमाणसूचनायेत्याशयेनाचार्य आह-मिथ्या For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy