________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
अद्वैतमञ्जरी ।
त्वाभावरूपसत्यत्वस्येत्यादि । वस्तुतस्तु, निरुपाधीष्टत्वादिनोपलक्षितत्वं तत्रकारकमनोवृत्त्युत्तरं निर्विकल्पकमनोवृत्त्या विषयीकृतत्वम् । अन्यथा शुद्धस्यैव ततद्रूपोपलक्षितत्वेन सत्यत्वानन्दत्वादिधर्मभेदानुपपत्तेः। तत्तद्धर्मप्रकारकज्ञानोत्तरमतद्व्यावृत्तिधीविषयत्वस्यापि तत्रैव पर्यवसानम् । आनन्दादीनां विशिष्टरूपत्वे तु
खरूपात्मकता न स्यात् । तस्मात् मिथ्यात्वेत्यादिमूलमपि विवरणवाक्यानुसारेण व्याख्येयम् । परप्रकाश्यत्वेति । अन्याधीनव्यवहारकत्वेत्यर्थः । घटादेरिव चितो ऽपि व्यवहारः हि चिदधीनः न चिदन्याधीनः । व्यवहारविषयतामा चित्तादात्म्यस्य प्रयोजकत्वात् । न च चिति तत्तादात्म्यासम्भवः । व्यवहारपूर्वकालोपहितचिति केवलचित्तादात्म्यसत्त्वात् । कार्यपूर्वकालोपहिते कारणसम्बन्धस्यैव कार्येषु प्रयोजकत्वात् । कालपरिच्छेदो नाशप्रतियोगित्वम् । देशपरिच्छेदोऽत्यन्ताभावप्रतियोगित्वम् । वस्तुपरिच्छेदो भेदप्रतियोगित्वम् । ननु, ब्रह्मणो मिथ्यात्वाभावादिस्वरूपस्य सत्यतादिरूपत्वमनुपपन्नम् । उक्ताभावत्वादिविशिष्टस्य मिथ्यात्वात् । अत एवं नोक्ताभावत्वादिविशिष्टतादात्म्योपलक्षितस्वरूपस्य सत्यतादिरूपत्वं तादात्म्यस्यापि स्वोपहित एव सत्त्वेन तदुपलक्षितत्वस्य शुद्धब्रह्मण्यसत्त्वात् । शुद्धे तत्स्वीकारेऽपि प्रपञ्चेऽतिव्याप्तिः । मिथ्यात्वादेरपि मिथ्यात्वेन प्रपञ्चेऽपि तदभावस्य प्रपञ्चस्वरूपस्य सत्त्वेन तत्तादात्म्योपलक्षितस्वरूपत्वानपायात् । न हि यदधिष्ठानरूपमधिकरणं तदेवाभावस्वरूपं नान्यदधिकरणमित्यत्र मानमस्ति । अथ मिथ्यात्वादिविशिष्टात् भेदः सत्यत्वादिकं वाच्यम् । तथापि मिथ्यात्वादिधर्मस्य ब्रह्मण्येव कल्पितत्वात् कथं नत्रोक्तभेदः । तत्राह-तथा चेत्यादि । तथा च सत्यत्वादेरभावरूपत्वे च । भावरूपधर्मानाश्रयत्वेऽपि मिथ्यात्वादिधर्मान्प्रति सम्बन्धविशेषेणानाश्रयत्वेऽपि । सर्वधर्माभावरूपतया स्वाधिष्ठानकसर्वधर्माभावत्वविशिष्टतादात्म्योपलक्षितस्वरूपत्वेन । तथा चाध्यासिकतादात्म्येन ब्रह्मणः प्रतियोगित्वादिरूपमिथ्यात्वादिधर्मवत्त्वेऽपि विशेषणताविशेषादिसम्बन्धेन तद्विशिष्टाद्भेदसम्भवेन तत्समानाधिकरणो यो मिथ्यात्वात्यन्ताभावस्तद्वत्तादात्म्योपलक्षितस्वरूपमुक्तभेदवत्तादात्म्योपलक्षितस्वरूपं वा सत्यत्वादीति भावः । एतेन मिथ्यात्वाद्यभावतादात्म्यवति ब्रमणि भावानाश्रयत्वोक्तिर्न युक्तेत्यपास्तम् ॥
॥ इति लघुचन्द्रिकायां द्वितीयमिथ्यात्वनिरुक्तिः ॥ _ 'विद्वान्नामरूपाहिमुक्त' इत्यादिश्रुत्यर्थे विवदमानं प्रति साध्यान्तरमाह---ज्ञा ननिवर्त्यत्वं वेति । अतिव्याप्तिः सिद्धसाधनम् । ज्ञानत्वेन ज्ञाननिवर्त्यत्वेति ।
For Private and Personal Use Only