________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे तृतीयमिथ्यात्वम् ] लघुचन्द्रिका ।
ज्ञानत्वावच्छिन्नकारणताप्रतियोगिककार्यतावन्नाशप्रतियोगित्वेत्यर्थः । अयं उक्ताव्याप्तिरूपः। प्रपञ्चनाशं प्रति ब्रह्मज्ञानस्य न कारणता । चरमतत्त्वज्ञानजन्यनाशस्यानाशापत्त्या 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिविरोधापत्तेः । तस्य ज्ञानानिवय॑त्वात् तत्सत्यत्वापत्तेः 'अतोऽन्यदात'मित्यादि श्रुतिबाधाच्च । तथा च शक्तिरूप्यादावप्युक्तज्ञाननाश्यत्वे मानाभावात् साध्याप्रसिद्धिरित्यपि बोध्यम् । ज्ञानप्रयुक्तेत्यादि । ज्ञानप्रयुक्तोऽधिष्ठानतत्त्वज्ञानव्यापको यः अवस्थितिसामान्यस्य स्वस्वीयसंस्कारान्यतरस्याभावः तत्प्रतियोगित्वमित्यर्थः ।या या अप्रामाण्यज्ञानादिशून्यसाक्षात्कारप्रमा । सा समानविषयकाज्ञानक्षणावृत्तिः । या या खजन्यपटुतमसंस्कारसहितोक्तप्रमा सोक्ताज्ञानतत्संस्कारक्षणावृत्तिः । सहितान्तोपादानादुक्तसहितान्यशुक्त्यादिप्रमाया उक्तसंस्कारक्षणवृत्तित्वेऽपि न व्यभिचारः । अत एव जीवन्मुक्तनिष्ठब्रह्मप्रमाऽपि तादृशक्षणवृत्तिः । या योक्तप्रमा । सा स्वसमानविषयकाज्ञानप्रयुक्ततत्संस्कारवत् कालपूर्वभिन्ना । तथा च तादात्म्येनोक्तप्रमा प्रति स्वाधिकरणक्षणवृत्तित्वसम्बन्धेनोक्ताज्ञानतत्संस्कारान्यतरस्याभावः उक्ताज्ञानप्रयुक्ततत्संस्कारान्यतरस्य स्वाधिकरणकालपूर्वत्वसम्बन्धेनाभावश्च व्यापकः । तादृशाभावप्रतियोगित्वस्याज्ञानतत्प्रयुक्ततसंस्कारेषु सत्त्वाल्लक्षणसमन्वयः । तादात्म्येन तादृशप्रमा प्रति स्वसमानविषयकत्वं कालिकत्वं चेति सम्बन्धद्वयेनाज्ञानतत्संस्कारान्यतरस्याभावः स्वप्रयोजकाज्ञानसमानविषयकत्वं स्वाश्रयकालपूर्वत्वं चेति सम्बन्धद्वयेनाज्ञानप्रयुक्ततत्संस्कारान्यतरस्याभावश्च व्यापक इति तु निष्कर्षः । नानाज्ञानपक्षे तत्पुरुषीयत्वमपि प्रमाऽज्ञानयोनिवेश्यम् । अवस्थितिरिति । प्रकृतस्यावस्थितिपदस्यार्थः । स्वरूपेण कारणात्मना चेति । अज्ञानतत्प्रयुक्तस्वरूपेण स्थूलावस्थाकारणीभूतसंस्काररूपेण च ।झटिति अज्ञानसंस्कारस्य स्थूलावस्थोपधायकत्वं जीवन्मुक्तिदशायामस्त्येव। तदर्थमेव तत्स्वीकारात् । ननु, संस्काररूपे मानाभावः तत्राह-सत्कार्यवादेति । कार्याणां तदधिष्ठानतत्त्वसाक्षात्कारपर्यन्तं किश्चिदूपमवश्यं वाच्यम् । प्रलयकाले अदृष्टादिनन्यायाः काविस्थायाः तत्कालसाधकश्रुत्यादिसिद्धत्वात् । 'तद्वेदं तहव्यालतमासीदित्या'दिश्रुत्या तत्काले कार्यस्यानभिव्यक्तरूपेण स्थितिबोधनात् दण्डादिपातेन घटो नष्टइत्यादि प्रत्ययेन दण्डपातादिजन्यनाशावगाहनाच्च । न हि तार्किकादिमतेऽपि कायस्य नाशोऽपलप्यते। परं तूक्तश्रुत्या घटो नाशत्वमापन्नः पूर्वावस्थैवोचरावस्था जातेस्याद्यनुभवेन च सिद्धं नाशस्य पूर्वावस्थातादात्म्यापन्नोत्तरावस्थारूपत्वम् । न च पूपूर्वोत्तरावस्थयोस्तादात्म्यमनुपपन्नमिति वाच्यम् । भिन्नकालीनयोः प्रतियोग्यनुयोगिभावसम्बन्धस्येव तादात्म्यस्यापि अनुभवबलेन सम्भवात् । अन्यथा घटादिकालाव
For Private and Personal Use Only