SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेढग्दृश्यसम्बन्धभङ्गः] लघुचन्द्रिका । २४१ त् । अत एव वायुभिन्न एव रूपसमवाय इति प्रमया समवायनानात्वमाहुरित्याशयेनाह-एतावतेति । ननु, तत्तद्विषये पूर्वपूर्वप्रयोग एवोत्तरोत्तरज्ञानस्य विषयत्वम् । तत्राह-न चास्मिन् सादाविति । तस्य पूर्वप्रयोगस्य प्रथमं सादिपदार्थे ज्ञानविषयोऽयमिति प्रयोगो न स्यात् । पूर्वप्रयोगाभावात् । न च ज्ञानस्येव पूर्वप्रयोगस्यापि पूर्वमुत्पन्नस्येदानीमुत्पन्नविषये सम्बन्धात्तज्ज्ञानादेवेदानी प्र. योग इति वाच्यम् । तद्विषयव्यक्तिमात्रप्रयोगस्य पूर्वसत्त्वे मानाभावात् ।। अत एव भाविप्रयोगमादायापि नोपपत्तिः । तत्र तत्रेति । घटादिव्यवहारे इत्यर्थः । तत्तवृत्तिविषयत्वेनेति । घटादिनिष्ठं यद्वृत्तिविषयत्वं, तद्धटितेन घटादिज्ञानत्वेनेत्यर्थः । विषयत्वादिति । कारणतावच्छेदकरूपं स्वरूपयोग्यत्वं विषयताघटितमित्यर्थः । तस्यापोति । कारणतावच्छेदकवत्त्वेन यन्निर्णीतं, तस्यैव कार्याभाववत्त्वं सहकार्यभावप्रयुक्ततया ज्ञातुं शक्यते । शिलादावंकुराधभाववत्त्वस्य जलाद्यभावप्रयुक्तत्वेनाज्ञानात् । तथा चोक्तान्योन्याश्रयः स्थित एवेति भावः । क्षणिकविशेषस्य तद्व्यक्तित्वेन कारणस्य कार्यभाववत्त्वमेव नास्ति । सहकारिकूटसम्पनत्वात् । कुतस्तस्य सहकार्यभावप्रयुक्तत्वम् । अतोऽनुगतेत्युक्तम् । कार्यानुपधायकवृत्तीति तदर्थः । शक्यावयवे स्वशक्यसम्बन्धिविशेषे । तेन रूपं करोति सुखं करोतीत्यादौ रूपादिसमवायिनि नाशं करोतीत्यादौ नाशप्रतियोग्यादौ लक्षणा लभ्यते । यत्सम्बन्धेत्यादि । स्वान्यसम्बन्धाद्यघटितस्य ज्ञानसम्बन्धित्वस्याश्रय इति अवच्छेदकान्तार्थः । स्वविषयकज्ञानसमवायित्वादात्मन्यव्याप्तिमाशङ्कय निरस्यति । यद्यपीति । ज्ञानावच्छेदे ज्ञानावच्छेदकत्वे । समवायापेक्षा समवायघटितत्वम् । यज्ज्ञानानवच्छिन्नेत्यस्य कृत्यमाह- यद्यपि चेति । समवेतेत्यादि । आत्मसमवायस्य स्वभावः समवेतात्मकरूपज्ञानावच्छिन्नः इच्छाया इष्यमाणात्मकेन नाशस्य प्रतियोग्यात्मकेन रूपज्ञानेनावच्छिन्नः स्वभाव इत्यर्थः । घटायवच्छिबेति। ज्ञानं स्वग्राहकेण विषयावच्छिन्नरूपेणैव गृह्यते इति तदेव तत्स्वभावः । विषयस्तु न ज्ञानावच्छिन्नरूपेणैव गृह्यते इति स न तथेति भावः । यज्ज्ञानानवच्छिन्नेत्यत्र यत्पदकृत्यमाह-यद्यपि स्वग्राहकेति । ननु, सर्वं ज्ञानं वाच्यत्वेन जानामीत्याद्यनुव्यवसायः खं प्रति विषयः स्वेनावच्छिन्नस्वभावश्चेत्यव्याप्तिः । अथ येन रूपेण विषयता, तेन रूपेण तज्ज्ञानानवच्छिन्नस्वभावता वाच्या । प्रकते च येन सर्वज्ञानत्वेन विषयता, तेन रूपेण न ज्ञानावच्छिन्नता । किं तु ज्ञानत्वमात्रेणेति चेत् । तथापि वाच्यस्य ज्ञानं वाच्यत्वेन जानामीत्यनुव्यवसाये अव्याप्तिः । अतो असङ्गतेयं परोक्तिरिति ध्येयम् । सम्बन्धिभूतस्वज्ञानेति । न च For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy