________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
त्मन्येव तादात्म्येन सर्वत्र सोत्पद्यते । विषये तु निरूपकत्वसम्बन्धेनेति न विषयस्तस्या उपादानमिति वाच्यम् । तादात्म्यस्यैव सामानाधिकरण्यप्रत्ययनियामकत्वेन तदभावे विषये तदनुपपत्तेः । ननु, भट्टमते एककनकव्यक्तिपरिणामानां कटककुण्डलादीनामुपादानीभूततादृशव्यक्त्यात्मना भेदाभेदयोस्स्वीकारादेकमृव्यक्तिपारणामयोःस्थूलसूक्ष्मभावापन्नयोः कार्ययोरपितादात्म्यस्वीकारात् घटतत्सूक्ष्मावस्थयोरपि भेदाभेदस्वीकारात् सूक्ष्मावस्थायां ज्ञातताया उत्पत्त्या स्थूलावस्थारूपे घटादौ सामानाधिकरण्यप्रत्ययोपपत्तिः । अत एव भट्टवार्तिके यागादेहत्तरावस्था, स्वर्गादेः पूर्वावस्था वा अपूर्वम् । अतो यागादेरस्वर्गादौ साक्षादेव कारणत्वमित्युक्तमिति चेन्न । ज्ञाततायास्सूक्ष्मावस्थायामप्रत्ययेऽपि स्थलस्यातीतस्य ज्ञातत्वप्रत्ययात् । किं च ज्ञानं विषये सम्बद्धं सदेव ज्ञाततां जनयतीति विषये ज्ञानस्य ज्ञाततान्यसम्बन्धस्यावश्यकत्वेन तेनैव 'ज्ञातमिद'मिति धीः । न च ज्ञानेन ज्ञातत्वोत्पत्तिं विना धीकर्मत्वं नोपपद्यत इति ज्ञाततान्यसम्बन्ध इव ज्ञातताप्यावश्यकीति वाच्यम् । तावतापि तस्याः विषयज्ञानयोस्सम्बन्धत्वासिद्धेः । परोक्षस्थल इवाज्ञाननिवृत्तेस्संस्कारादेवी धीकर्मतात्वसम्भवाच्च । गगनादाविति । सदा सम्बन्धापेक्षाभ्यां हानोपेक्षयोस्तत्रासम्भवादुपादानस्य पूर्वसिद्धत्वात् न तेषां तत्र फलत्वम् । कलधौतेति । कलधौतमात्रस्य ज्ञानेन तन्मलालोचनद्वारा तहानजननात्तस्य तद्विषयत्वापत्तिः । न द्वितीय इति । हानाद्यभावबुद्धेः पूर्वसत्त्वेन गगनादौ हानादिबुद्धेरसम्भवात् उपादानबुद्धेः पूर्वसिद्धत्वाच्च हानादिधीन फलम् । तदाकारेति । तत्स्वरूपात्मकाकारपदार्थेत्यर्थः । हेतूनामिति । अर्पकत्वस्य हेतुत्वरूपस्यैव वाच्यत्वादिति शेषः । यथा दृश्यत्वमिति । दृक्तादात्म्ये ढक्तादात्म्यान्तरं न स्वीक्रियते । अनवस्थापत्तेः । अतः स्वस्मिन् स्वरूपसम्बन्धेन तत्सत्त्वात् दृश्यत्वव्यवहारः । तथा योग्यतायां तयैव तयवहारः । संविद इति । घटे ज्ञानमित्यादौ प्रकृत्यर्थस्य विषयत्वप्रतीतेः प्रकृतेऽपि तथा स्यात् । विषयताघटितत्वेन विषयताश्रयत्वरूपत्वेन । मत्समवेतं मत्समवायवत् । अन्योन्याश्रय इति । प्रयोगे जाते तेन सम्बन्धेन विषये ज्ञानस्य विशिष्टप्रमयाऽयं ज्ञानविषय इति प्रयोगः, तस्मिन् सति च सेत्यन्योन्याश्रयः । अभियुक्तस्य मन्त्रे एव मन्त्रशब्दप्रयोक्तृत्वस्य मन्त्रत्वघटितत्वादन्यादृशस्य दुर्वचत्वान्मन्त्रपदशक्यतावच्छेदकधर्मवत्त्वमेव मन्त्रत्वम् । स च धर्म आनुपूर्वीविशेषो नानाविधः । यद्यपि विषयपदशक्यतावच्छेदकवत्त्वं विषयत्वमिति शक्यते वक्तुम् । शक्तेरखण्डधर्मत्वमते शक्त्या घटितत्वेनानुगमसम्भवात्, तथाप्यत्रैवास्य ज्ञानस्य विषयत्वमिति व्यवहारो न तेन सम्भवति । तस्य सर्वत्र सत्त्वा
For Private and Personal Use Only