________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रदे ग्रयसम्बन्धभङ्गः ]
लघुचन्द्रिका |
२३९
तत्तद्विषयितारूपाकारापेक्षणीयत्वेन । तच्चोक्तरीत्या बोध्यम् । व्यवहारेति । व्यवहारजनकेत्यर्थः । परिचायकत्वेन इतरस्माद्व्यावर्तकत्वेन । ज्ञानस्वभावानामननुगतत्वात् तेषामेव न तेषु व्यावर्तकत्वम् । न वा व्यवहारजनकत्वं व्यावर्तकम् । तस्योपधाय कतारूपत्वे अननुगमात् । स्वरूपयोग्यतारूपत्वे जनकतावच्छेदकरूपत्वेन विषयघटितत्वावश्यकत्वात् ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति लघुचन्द्रिकाय असतोऽसाधकत्वे बाधकम् ॥
संयोगसमवाययोरभावादिति । गुणादौ नात्मनस्संयोगः । द्रव्येऽपि तस्यातीतत्वादिकाले उत्पत्तिकाले वा न सः । न चोत्पत्तिकाले संयोगो मास्तु । अतीतादौ तु तदीयसूक्ष्मावस्था संयोगद्वारकस्सम्बन्धः । एवं गुणादावपि द्रव्यद्वारेति वाच्यम् । ཏུ व्यादेर्निरवयवत्वेन तत्र तद्गुणादौ च तदसम्भवात्सावयव एव संयोगस्य स्वीकारा - न्निरवयवे अवच्छेदकासम्भवात् । दिकालविशेषाणां तु त्रुत्यादौ सम्बन्धस्य दैशिकव्याप्यवृत्तितया दैशिकाव्याप्यवृत्तिस्वभावसंयोगादौ अवच्छेदकत्वासम्भवात्। आत्मगुणत्वं तु न ज्ञानस्य सम्भवति । तत्र मनस एवोपादानत्वात् । अन्यथात्मनस्तत्रोपादानत्वं मनसो निमित्तत्वमित्यत्र गौरवात् । आत्मरूपज्ञानस्य जगदुपादानस्य समवायो नातीता
सम्भवति । न वा अनादौ । अनाध्यासिकस्येति । अधिष्ठानारोप्ययोः यत्तादात्म्यं, तदन्यस्येत्यर्थः । उक्ततादात्म्यं तु ज्ञानस्वरूपस्याधिष्ठानत्वं विषयस्यारोप्यत्वं साधयतीति वक्ष्यते । द्विष्ठसम्बन्धात्मकत्वेति । सम्बन्धस्य यो द्विष्ठस्वभावस्तदात्मकत्वेत्यर्थः । संयोगस्य द्विष्ठत्वेनोभयवादिसिद्धत्वात् कल्प्यो ज्ञानविषययोस्सम्बन्धोऽपि तादृशः कल्पयितुमुचितः । अन्यथा विषयनिष्ठा विषयता ज्ञाननिष्ठा च विषयितेति द्वयोः कल्पने गौरवात् । तदकल्पने विषयस्य प्रमात्वानुपपत्तेः । अत एव स्वत्वादिसम्बन्धोऽपि न युक्तः । स्वस्वामिनोविद्यमानस्यैकसम्बन्धस्यैव युक्तत्वात् । न हि चैत्रधनयोस्सम्बन्धद्वयं कस्यापि वुद्धिविषयः । अत एव गुणगुण्यादिस्थले तादात्म्यमेव भट्टादिमते स्वीक्रियते । न चैवं स सम्बन्धो गुणे गुणवतो वृत्तिनियामकः स्यादिति वाच्यम् । कुण्डवदरनिष्ठस्यापि संयोगस्य कुण्डवृत्त्यनियामकत्वस्य दृष्टत्वात् । अनङ्गीकारादिति । अज्ञानस्य प्रामाणिकत्वेन तन्निवृत्ते - रेव ज्ञानफलत्वसम्भवेन ज्ञातता न स्वीक्रियते । न च सैव विषयतेति वाच्यम् । प्रातीतिके अनुवाद्ये च विषये तदसम्भवात् । अतीतादाविति । ज्ञातता नातीते ज्ञानेनोत्पादयितुं शक्यते । तदुत्पत्तिपूर्वमुपादानस्य विषयस्य सत्वाभावात् । न च विद्यमानविषये तादात्म्येन सम्बद्धा सा निरूपकत्वसम्बन्धेनात्मनि सम्बध्यते इत्यवश्यं वाच्यम् । अन्यथा ज्ञानोपरमेऽपि पुरुषविशेषीयतया तस्याः प्रत्यक्षं न स्यात् । तथाचा
For Private and Personal Use Only