SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ अद्वैतमझरी । अन्य स्वलक्षणतयैव तु लक्षणं खं च्छिद्रं जलं द्रवमितीदृशमेव लोके ॥ स्वानुरक्तमतिजन्मकारणं यत् पुनर्भवति लक्ष्यवस्तुनि । तद्विशेषणतयास्य लक्षणं केसरदिकमित्राश्ववस्तुनः ॥ स्वानुरक्तमतिजन्महेतुतां लक्ष्यवस्तुनि निरस्य लक्षणम् । अस्वरूपमपि तस्य यत् भवेत् काकवत्तदुपलक्षणं विदुः ॥' इति । यद्यप्यत्रोपलक्षणोपाध्योर्द्वयोरुपलक्षणत्वेन ग्रहणं, तथापि तयारवान्तरलक्षणं नापलपितुं शक्यते । अत एव जगत्कारणत्वादिकं ब्रह्मणः इतरव्यावृत्त्युपलक्षितस्वरूपबुद्धौ उपाधिरेवेति विशेषणस्वलक्षणान्यव्यावर्तकत्वेनैकीकृत्योपलक्षणपदेन शास्त्र व्यवहारः । अत एव शब्दमणो 'शब्दाश्रयत्वमाकाशपदप्रयोग उपलक्षण मित्यु. क्तम् । ‘गोत्वोपलक्षिते धेनुपदशक्तिरित्युक्तम् । विशेषणान्यत्वेनोपलक्षणत्वव्यवहारसम्भवात् । वस्तुतस्तु धर्मान्तरोपस्थापकमुपलक्षणमित्येव युक्तम् । कल्पतर्वादिवाक्यमपि तदनुसारेण नेयम् । तथाहि विशेषणोपाध्युपलक्षणानां पूर्वस्य पूर्वस्योत्तरोत्तरापेक्षया श्रेष्ठत्वम् । तेषामन्यतमस्य वाक्यादिप्रमेयत्वसन्देहे पूर्वपूर्वस्यैव तत्प्रमेयत्वमिति यावत् । तथा चोपाध्यपेक्षयोपलक्षणस्य जघन्यत्वे व्यावर्तकान्तरोपस्थापकतया तत्सापेक्षत्वं बीजम् । व्यावृत्तिधीकाले व्यावर्तनीये विद्यमानत्वाभावमात्रं तु न बीनं सम्भवति । उपाधिवढ्यावर्तकत्वाविशेषात् । अथ यथा तव मते उपाधेविशेषणवव्यावर्तकत्वेऽपि व्यावृत्तिधीकालासत्त्वादेव जवन्यत्वं, तथा मन्मते उक्ताभावमात्रेण उपलक्षणमुपाधितो जघन्यमिति चेन्न । तथापि स्वतो व्यावर्तकस्य व्यावर्तकोपस्थापकादव्यावर्तकात् श्रेष्ठत्वं त्वयापि वाच्यम् । तच्च त्वन्मते न प्रतिपादितम् । तेन तव न्यूनता । अथ तवापि विशेप्यान्वयिन्यन्वितानन्वितयोः। आये श्रेष्ठत्वम् । तच्च त्वन्मते न प्रतिपादितम् । तेन तव न्यूनतेति चेन्न । मम हि विशेषणोपाध्योस्तादृशमुख्यजघन्यत्वमनुकमाल्लभ्यते । अथ तार्ह ममापि साक्षात् परम्परया व्यावर्तकयोर्मुख्यजघन्यत्वमालभ्यत इति चेत् । तर्हि नास्त्यावयोर्विवादः । ननु, 'दण्डययमासी'दित्यादौ दण्डे विशेषणे अव्याप्तिः। व्यावृत्तिधीमति एतत्काले तस्यासत्त्वात् । 'दण्डिनं भोजये' त्यत्र दण्डस्य विशेषणत्वाभावात्तत्रातिव्याप्तिः । व्यावृत्तिधीकालसत्त्वादिति चेन्न । आद्ये अतीतसत्तायां दण्डस्य विशेषणत्वेऽपि व्यावृत्तिबुद्धावविशेषणत्वात्तद्विशेषणस्यैव प्रकृते लक्ष्यत्वेनाव्याप्त्यभावात् । अतएव नातिव्याप्तिः। भोजनीयत्वं प्रत्यविशेषणस्यापि व्यावृत्तिबुद्धौ विशेषणत्वात् । सामान्यतो विशेषणलक्षणं तु यत् यदुपरक्तं, तत् तत्र विशेषणमित्यादि बोध्यम् । तत्तदाकारत्वेनेत्यादि । तृतीयानामभेदोऽर्थः । तस्य च वैलक्षण्येऽन्वयः । वृत्तेचिदुपरागार्थत्वपक्षे प्रतिविम्बितत्वेनेतिआवरणभङ्गार्थत्वपक्षे तदभिव्यक्तत्वेनेति। आकारसमर्पकत्वेन For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy