________________
Shri Mahavir Jain Aradhana Kendra
२४२
www.kobatirth.org
भद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
यत्र ज्ञाने समवायो विषयः तेनानवच्छिन्नत्वं तत्राक्षतमिति वाच्यम् । समवायस्यैकत्वेन रूपज्ञानसमवायस्य रूपज्ञानज्ञानीयत्वात् रूपज्ञानम्मत्समवेतधीविषयइति ज्ञानावच्छिन्नत्वस्य समवाये सत्वाच्च । असम्भवादिति । ननु, ज्ञानत्वेनावच्छेदकत्वं निवेश्यम् । आत्मसमवायस्य तु स्वविषयकज्ञानं सम्बन्धित्वेनावच्छेदकम् । न तु ज्ञानत्वेन । विषयस्तु न केनापि रूपेण ज्ञानावच्छिन्नः । ज्ञानं विनापि घटोऽयमित्यादिनिरूपणादिति चेन्न । ज्ञानत्वेनावच्छेदकतानिवेशे तज्ज्ञानानवच्छिन्नेत्यस्य कृत्याभावात् । न हि नाशेच्छादौ ज्ञानत्वेन ज्ञानमवच्छेदकम् । किं तु प्रतियोगित्वविषयत्वादिना । अथ येन रूपेण सम्बन्धिताधीस्तेनावच्छेदकत्वं निवेश्यम् । तथा च ज्ञानं नष्टमित्यादौ ज्ञानत्वेन सम्बन्धित्वस्य प्रत्ययात्तद्वारणम् । तर्हि प्रकृतेऽपि तथा प्रत्ययाद्दोषः । विषयस्त्वित्यादिकं तूक्तव्याप्तिनिरासान्निरस्तम् । ज्ञानं गुण इत्यादौ विषयं विनापि ज्ञाननिरूपणाच्च । न च यज्ज्ञानप्रत्यक्षत्वं यदीयसम्बन्धव्याप्यं, तस्य स विषय इति वाच्यम् । यज्ज्ञानस्य प्रत्यक्ष विषयतानिवेशे आत्माश्रयात् । सम्बन्धसामान्यनिवेशे आत्मादेर्धीमात्रविषयत्वापत्तेः । अथ यदित्यादि । 'प्रकाशस्य सतस्तदीयतामात्र निबन्धनः स्वभावविशेषो विषयतेत्युदयनाचार्यवाक्यं बौद्धादिकारस्थम् । तत्र शिरोमण्यादीनां व्याख्यानं प्रकाशस्य ज्ञानस्य सतः विद्यमानस्य विषये विद्यमाने अतीतादौ च विद्यमानज्ञानसम्बन्ध - ज्ञापनायेदम् । तदीयतामात्र निबन्धनस्तदीयत्वोपहितस्वभावः स्वरूपमिति । ननु, तदीयत्वं ज्ञानविशेषपरिचायकम् । न तु लक्षणे प्रविष्टम् । तथा च वस्तुगत्या यदीयं यत् ज्ञानं तत् तस्य विषयता । तत्राह रूपेति । अनेन शिरोमण्युक्तदूषणेन दूषणान्तराण्यपि सूचितानि । तदुक्तं शिरोमणिभिः । यदि ज्ञानमेव विषयता, तदा घटपटाविति समूहालम्बनस्य भ्रमत्वापत्तिः । घटत्वाभाववति पटे घटत्वविषयकत्वात् । यैव हि घटनिष्ठा तद्धीरूपा विषयता घटत्वविषयतानिरूपिता, सैव पटनिष्ठा विषयता । किं च यथा घटादिज्ञानन्तत्स्वरूपसम्बन्धेन घटादीयं, तथा स्वीयं कालीयं स्वाभाविीयं चेति स्वाभावादिविषयकत्वेनापि व्यवह्रियते । अपि च विषयता विषयतवं वा यदि नातिरिच्यते ज्ञानात्, तदा घटविषयकज्ञानत्वादिना कथं हेतुत्वादिकम् । तत्तज्ज्ञानव्यक्तीनामननुगमात् । तस्माद्विषयता विषयतात्वं च ज्ञानादन्यत् । प्रकारत्वादयस्तद्विशेषाः । एवं प्रतियोगित्वाधिकरणत्वादिकमपि प्रतियोग्यादिभिम्नम् । न चैवं विषयताया अपि विषयता तदन्या । एवं तद्विषयतापीत्यनवस्थेति वाच्यम् । अगत्या तत्स्वीकारा' दिति । तदेतत् 'अनवस्थादयो दोषाः सत्तां निघ्नन्ति वस्तुनः । अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ||' इति खण्डनोक्तरीत्या अस्मद
For Private and Personal Use Only