SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra प्र.दे दृग्दृश्यसम्बन्धमङ्गः] लथुचन्द्रिका । नुकूलम् । दूषणान्तरं चाचाक्ष्यते । इति चेन्नेति । प्रत्यक्ष प्रतीन्द्रियमनोयोगत्वेनेव चाक्षुषं प्रति चक्षुर्मनोयोगत्वेन हेतुत्वादिति शेषः । तत्पुरुषायचाक्षुषवृत्तिनातिविशेषावच्छिन्नं प्रति जातिविशेषेण चक्षुस्संयोगस्य हेतुत्वेऽपि चाक्षुषत्वेन कार्यत्वमवश्यं वाच्यम् । जन्यमात्रवृत्तितया प्रत्यक्षादिसिद्धजातेः कार्यतावच्छेदकत्वं विना आकस्मिकत्वापत्तेः । तत्र च कारणत्वं चक्षुष्वेन संयोगत्वेन वेत्यस्याविनिगम्यत्वाञ्चक्षुमनोयोगस्यापि चाक्षुषमात्रे हेतुत्वम् । यथा हि समवायेन चाक्षुषं प्रति संयोगेन चक्षुः कारणं सम्भवति, तथावच्छेदकतासम्बन्धेन चाक्षुषं प्रति तेनैव चक्षुर्मनोयोगोऽपि । तस्य शरीरे तत्सम्बन्धसम्भवात् । वस्तुतो रसनादीन्द्रियसंयुक्ते मनसि सति चक्षुर्विषयसंयोगेऽपि चाक्षुषानुत्पत्तेश्चाक्षुष प्रति चक्षुर्मनोयोगस्य जातिविशेषेणोक्तसम्बन्धेन हेतुत्वमावश्यकमिति भावः । लिङ्गज्ञानं लिङ्गादिज्ञानम् । तयाप्तत्वं स्वविषयलिङ्गव्यापकत्वम् । ननु, व्याप्तिघटकसम्बन्धत्वरूपेणानुमितिस्थलोयसन्निकर्षों निवेश्यः । स च व्यापकधर्मसम्बन्धयोरपीति चेन्न । व्याप्तिघटकप्रतियोगित्वादावतिव्याप्तेः । न च ज्ञानेत्यादि । 'ज्ञानं मदीयं 'घट जा. ना मीत्यादौ ज्ञानावच्छेदकत्वादात्मादिकं घटज्ञानादिविषयस्स्यादत आद्यं दलम् । मन आदिवारणाय द्वितायम् । ज्ञानावच्छेदकत्वस्य परम्परासम्बन्धेन व्याप्यो धमों मनआदावपि । अतः साक्षात्सम्बन्धेन व्याप्यतालाभाय साक्षादिति । वस्तुत्वादीति । ज्ञानसामान्यकारणत्वं यदि निवेश्यते, तदोक्तलक्षणं वस्तुमात्रेऽपीति वस्तुत्वादिकमेव लाघवाल्लक्षणमस्तु । यदि तत्तद्धीकरणत्वं निवेश्यते, तथापि सन्निकर्षस्यानतित्रसक्तत्य दुर्वचत्वात् सम्बन्धमात्रस्य निवेशे स एव दोषः । तथा चास्य ज्ञानस्यायमेव विषयो नान्य'इति व्यवहारो न स्यादिति भावः । संयोगादौ संयोगसमवाययोः ज्ञानज्ञेययोस्वरूपं सामान्यतः कस्यचित् ज्ञानस्य विषयतेत्युक्तावप्ययं दोषः । तदुभयान्यत्वं संयोगसमवायान्यत्वम् । हिमति । तत्तज्ज्ञानज्ञेययोः स्वरूपं तयोविषयतेत्युक्तावप्ययं दोषः । स्वस्यैव स्वस्मिन् सम्बन्धत्वे हिमवति विन्ध्यस्य स्वरूपसम्बन्धेन धीरपि प्रमा स्यात् । अथ तत्र बाधात् स्वरूपं न सम्बन्धः । तहि ज्ञानेऽपि ज्ञेयस्य बाधात्तथा । अथ सम्बन्धान्तरं तद्वाधधीविषयः । तहिं तत्रापि तथा स्यात् । तस्मात् 'स्वं न खस्मिन्' 'खं न स्वीय'मित्यनुभवेन स्वस्य स्वप्रतियोगकत्वस्वानुयोगिकत्वयोबधिात स्वरूपं न सम्बन्ध इति भावः । समवायस्यति । सम्बन्धान्तगविषयकधीरेव निवेश्येत्युक्तौ त्वनवस्थादिकम् । स्वरूपस्य सम्बन्धिस्वरूपस्य । अभावभ्रमेति । यस्य स्वरूपं सम्बन्धस्तद्भमेत्यर्थः । अवच्छेदकाविषयिणीति । सम्बन्धतावच्छेदकं यत् संयोगत्वादिकमुक्तयाोग्यतावच्छेदकं वा तदविषयिणीत्यर्थः । For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy