SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे प्रत्यक्षप्राबल्यभङ्गः] लघुचन्द्रिका । नाशो न जन्म देहेन्द्रियबुद्धिरस्ति । न भूमिरापो मम वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च । एवं विदित्वा परमात्मरूपम्' । 'अशब्दमस्पर्शमरूप' मित्यादिश्रुतेरपि पुण्यत्वादिविशेषविशिष्टे तत् । तथापि पूर्वोक्तवाक्यमात्रालोचनेऽपि नोक्तन्यायावकाश इत्याशयेनाह-सामान्येति । ननु, 'त्सरा वा एषा यज्ञस्य तस्माद्यत्किञ्चित् प्राचीनमग्रीषोमयिात्तेनोपांशु चरन्ती'त्यत्र ज्योतिष्टोमप्रकरणे श्रुतवाक्ये विहितमुपांशुत्वमनीषोमीयापेक्षया कि पूर्वस्य ज्योतिष्टोमीयभागस्याङ्गम्, उत तद्गतपदार्थस्येति संशये तच्छब्दार्थमुद्दिश्यैवोपांशुत्वं विधेयम् । अन्यथा अग्नीषोमीयप्राचीनादिपदार्थानां मिथोऽन्वयस्याव्युत्पन्नतया विशिष्टस्योद्देश्यत्वासम्भवात् । तच्छ - ब्दार्थश्च प्राचीनपदार्थ एव । स च ज्योतिष्टोमीयोऽग्निष्टोमीययागपूर्वभाग एव । न तु तद्गतपदार्थाः । तेषामनेकत्वेनैकवचनासङ्गतेः । यत्किञ्चिच्छब्दस्तु नानापदाथघटिते भागे प्राचीनपदतात्पर्यग्राहकः । भागस्य च स्वरूपेणोद्देश्यत्वासम्भवातस्यापूर्वासाधनत्वाच्च अपूर्वसाधनज्योतिष्ठोमस्य प्रकृतत्वेन तदीयभागत्वेनोद्देश्यता । तथा चोपांशुत्वस्य ज्योतिष्टोमीयापूर्वप्रयुक्तत्वेन ज्योतिष्टोमीयविकृतौ तादृशभागान्तर्गतेप्वप्राकृतपदार्थेप्वपि तत्प्राप्तेरिति प्राप्ते, यत्किञ्चित्पदस्य बहुप्वेव प्रयो-- गात् स्वार्थपरत्वे सम्भवति तादृशसमूहतात्पर्यग्राहकत्वेन तस्य सार्थक्यायोगात् प्राथम्यात् बलवतस्तस्यानुरोधेन च चरमोक्तप्राचीनपदाश्रितस्यैकवचनस्य बहुत्वलक्षकत्वात्तेनेत्यनेन प्राचीनपदार्थतत्तत्पदार्थजन्याङ्गापूर्वसाधनमुद्दिश्योपांशुत्वं विधीयते । योग्यत्वात्तादृशपदार्थीयमन्त्रो द्वारम् । त्सरेत्यादेरयमर्थः । एषा यज्ञस्य त्सरा ज्योतिष्टोमयागीयपदार्थजन्यापूर्वलाभाय च्छद्मगतिः । उच्चैःशब्दरहितं साधनं यदुपांशुत्वम् । यथा पक्ष्यादिधारणायोच्चैःशब्दरहितं गमनादिकमिति नवमप्रथमे सिद्धान्तितम् । तत्र दीक्षणीयादिसकलप्राचीनपदार्थोद्देशेनोपांशुत्वविधानासमर्थमपि यत्किञ्चिदित्यादिवाक्यं यावत्येत्यादिवाक्यविहितस्वरविशेषावरुददीक्षणीयाप्रायणीयादिभिन्नतादशपदार्थोद्देशेन तद्विधायकतयापि सावकाशत्वेन यावत्येत्यादिना यथा संकुच्यते, तथा प्रत्यक्षेण तदविषयविषयकत्वेनापि सावकाशं श्रुत्यादि संकुच्यतामित्याशंक्य निषेधति--नचेति । चरन्तीत्यस्य संकोच इत्यग्रेऽन्वयः । निरवकाशेनेति यावत्येत्यनेन यत्किञ्चिदित्यादेस्संकोच्यतायां हेतुः । दीक्षणीयातिरिक्त सावकाशत्वादिति । दीक्षणीयाभिन्ने उपांशुत्वविधायकतयापि लब्धविषयकत्वादित्यर्थः। ननु, यत्किञ्चिदित्यादेीक्षणीयातदन्यसाधारणरूपेण पदार्थबोधकयत्किञ्चित्पदयुक्तत्वेन सामान्यशास्त्रत्वादेव यावत्येत्यादिविशेषशास्त्रेण सङ्कोचसम्भवति । स च पूर्वमेवोक्तत्वान्नेदानी वक्तुं युक्तस्तत्राह-यत्किञ्चिच्छब्दस्येति । यत्किञ्चित्परतवा For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy