________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
द्वयोस्साम्यात् न श्रुत्यादिना प्रत्यक्षं बाध्यताम् । तत्राह-परीक्षितस्येति । प्रमाणत्वेन निश्चितस्येत्यर्थः । मन्धरगामिनः आकांक्षाव्याप्त्यादिनिश्चायकमानान्तरसापेक्षत्वेन विलम्बितफलकस्य । प्राबल्यात् अपरीक्षितमानापेक्षया बलवत्वात् । तथा च परीक्षितयोश्श्रुत्यादिलिङ्गाद्योराद्येन शीघ्र विनियोगे कृते विनियुक्तस्य मन्त्रादेस्साध्याकांक्षायां निवृत्तायां लिङ्गादेस्तत्साध्यसमर्पकत्वाभावेन बाधो युक्तः। प्रत्यक्षस्य त्वपरीक्षितत्वेन परीक्षितश्रुत्यादिवाधात्वमनुपपन्नमिति भावः । ननु, दशमाष्टमे चिन्तितं ज्योतिष्टोभे श्रुतं 'पदे जुहोति'वर्त्मनि जुहोति' इति,अनारम्याधीतं यदाहवनीये जुहोती ति। तद्विहितयोः पदाद्याहवनीययोः होमसामान्ये विकल्पः। न तु पदादिशास्त्रमन्यस्य बाधकम् । द्वयोरपि शास्त्रयोः प्रत्यक्षत्वात् । 'शरमयं बर्हि'रिति शास्त्रं तु प्रत्यक्ष करप्यस्य कुशातिदेशशास्त्रस्य बाधकमिति युक्तमिति प्राप्ते, सिद्धान्तसूत्रम्-'अविशेपेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्टं स्या' दिति । अस्यार्थः--यत् सामान्यशास्त्रं अविशेषेण जुहोतिवाच्यस्य होमसामान्यस्य सर्वहोमसम्बन्धाल्लक्षणया होमव्यक्तिप्वाहवनीयसम्बन्धबोधक, तत् पदहोमादिविशेषे तत्सम्बन्धपरत्वेन सन्दिग्धं निर्णेतुमशक्यम् । विकल्पस्याष्टदोषदुष्टस्यान्याय्यत्वात् । अथापि स स्वीक्रियते । यदि शास्त्रयोस्समबलत्वं स्यात् । प्रकृते तु यद्विपशिष्टं पदादिविशिष्टहोमविशेषविधायकं शास्त्रं तत् आरात् शीघ्रप्रवृतम् । तादृशविशेषस्य प्राकरणिकत्वेन शीघ्रोपस्थितत्वादन्यहोमस्य तथाऽनुपस्थितत्वाच्च तादृशहोममात्रपरत्वनिर्णयात् । सामान्यशास्त्रस्य तदितरपरत्वसम्भवेन विषयप्राप्तेरिति । ननु, व्रीह्यादिकं विना यागानिप्पत्तेः तस्य दृष्टार्थत्वं युक्तम् । आहवनीयं विनापि तु प्रक्षेपरूपहोमनिष्पत्तेः तस्यादृष्टार्थत्वात् पदादिभिस्सह तस्य समुच्चय एवास्तु । पदादेराहवनीयजन्यादृष्टजनकत्वे मानाभावादिति चेन्न । निरपेक्षाधारताद्वारैव दृष्टार्थत्वात् । न चैवं, षष्ठे अनेः प्रतिनिधिनिषेधो न स्यात्। आधारतारूपदृष्टार्थत्वा दिति वाच्यम् । अवश्यापेक्षणीयदृष्टार्थत्वाभावात् । तथा च यथा विशेषशास्त्र सामान्यशास्त्रस्य बाधकम् । विशेषविषयकत्वात् । तथा प्रत्यक्षं श्रुत्यादिबाधकमास्तामित्याशङ्कय निषेधति-न चेति । घटविषयसत्त्वग्राहिणः घटत्वादिविशेषरूपविशिष्टे सत्त्वप्रकारकस्य । सामान्यतः आत्मान्यत्वरूपद्वितीयत्वेन । द्वैतनिषेधश्रुतीति । घटादिनिषेधकैकमेवाद्वितीयमित्यादिश्रुतीत्यर्थः । यद्यपि ' नेह नानास्ति किञ्चन' 'नात्र काचन भिदास्ति' 'इदं सर्वं यदयमात्मे' त्यादिश्रुतिषु किमादिसर्व मामार्थवटत्वादिविशेषरूपविशिष्टेऽपि मिथ्यात्वबोधकत्वम् । न पुण्यपापे मम नास्ति
For Private and Personal Use Only