SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र० दे प्रत्यक्षप्राबल्यभङ्गः ] www.kobatirth.org लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir १४९ I रूपोपमर्दहेत्वभावेनार्थवादस्थपदानां वेदरूपमुख्यार्थकत्वमेव । तथा च गुणीभूतस्योपक्रमस्थत्वे अङ्गगुणविरोधन्यायस्य नावतारः । तादृशपदयुक्तेऽर्थवादे विरोधिनि प्रवृत्ते सति पश्चात् प्रवर्तमानैर्विधिस्थोक्त पदैस्तद्विरुद्धमन्त्ररूपार्थेषु स्थातुमशक्यम् । विध्यर्थवादयोः प्रतीतैकवाक्यताभङ्गापत्तेः । 'चैत्रस्स्तपस्वी चैत्रः पूज्यता' मित्यादौ हि चैत्रे प्राशस्त्यज्ञानात्तत्कर्मकपूजायामपि प्राशस्त्यज्ञानेन प्रवृत्तिः । प्रथमचैत्र पदस्थले मैत्रपदवटितोक्तवावयेतु उक्तज्ञानाभावेनाप्रवर्तकत्वेन नैकवाक्यता । अत एव नापच्छेदन्यायेन विधिस्थपदानां प्राबल्यम् । पूर्वापरमानयोरेकविशिष्टार्थप्रमापकत्वे सत्युक्तन्यायाप्रवृत्तेरित्येवंरूपः । तौ च पूर्वोत्तरपक्षौ ज्योतिष्टोमप्रकरणपठितोक्तवाक्ये तृतीयतृतीयस्याद्याधिकरणे चिन्तितौ । अत्रोच्चैरादिस्वराणां कर्मसु साक्षात्सावनत्वासम्भवेऽपि मन्त्रद्वारा साधनत्वं बोध्यम् । उभयोः ऋग्वेदादिऋगादिपदयोः । साम्ये प्रमाणत्वेन निश्चितत्वे । तत्र हेतुः - परस्परसापेक्षपदत्वेनेति । एकप्रमाजनने अन्योन्यसापेक्षपदत्वेनेत्यर्थः । तत्रापि हेतुः - एकवाक्यस्थेति । श्रुत्यपेक्षया न्यूनबलत्वादित्यन्वयः । भ्रमविलक्षणत्वेन बाधितविषयकान्यत्वेन । अन्यथा साम्याभावेऽप्युपक्रमस्थतामात्रेण बलवत्त्वस्वीकारे । अत्र भ्रमोऽपीत्यनेन बाधकज्ञानापेक्षणीयत्वाभावेन भ्रमस्येव प्रत्यक्षस्यापि श्रुत्यपेक्षणीयत्वाभावेनैकवाक्यत्वाभावात् नोपक्रमन्यायस्य प्रकृते अवतार इति सूचितम् । एतेनेत्यादि । 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये ' परदौर्बल्यमर्थविप्रकर्षा' दिति तृतीयतृतीयस्याधिकरणे श्रुत्यादीनां मध्ये परदौर्बल्यं पूर्वपूर्वपेक्षया परं परं दुर्बलम् | अर्थस्याङ्गताबोधनरूपस्य प्रयोजनस्य विप्रकर्षात् ! श्रुतिः साध्यत्वसाधनत्वयोः अन्यतरबोधकं तृतीयाद्वितीयादिपदम् । तत्कल्पिका योग्यता लिङ्गम् । तत्कल्पकः पदयोर्योगो वाक्यम् । तत्कल्पकं प्रधानस्य साकांक्षत्वं प्रकरणम् । तत्कल्पकं पाठादिसान्निध्यं स्थानम् । तत्कल्पकं यौगिकं हौत्रादिपदं समाख्या । तथा च परस्य पूर्वकल्पनाद्वारा साधनत्वादिबोधनेनैवाङ्गताप्रापकत्वात्ततः पूवैमेव पूर्वेणाङ्गताप्रापणात् शीघ्रगामित्वेन श्रुत्यादीनां लिङ्गाद्यपेक्षया प्राबल्यम् । तथा चन्द्रप्रकाशनसामर्थ्यरूपाछिङ्गादैन्द्री ऋक नेन्द्राङ्गम् । किं तु 'ऐन्द्या गाईपत्यमुपतिष्ठत' इति श्रुला गार्हपत्याङ्गम् । तदनुरोधेनैन्द्री स्थमिन्द्रादिपदं मुख्यवृत्त्याऽपि गार्हपत्यस्यैव बोधकम् । एवं च यथा शीघ्रगामित्वात् श्रुतिः लिङ्गात् प्रबला, तथा प्रत्यक्षं श्रुत्यनुमानादित इत्यप्येतेन बाधकत्वाभिमतप्रमाणस्य न्यूनबलत्वेनापास्तमित्यर्थः । ननु, प्रत्यक्षस्योक्तरीत्या न्यूनबलत्वमिव श्रुत्यादेरपि प्रत्यक्षापेक्षया मन्धरगामित्वेन तदपेक्षया न्यूनबलत्वम् । तथा च For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy