________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे द्वितीयमिथ्यात्वम् ] लघुचन्द्रिका ।
भावमादाय परेषां न सिद्धसाधनम् । वाच्यत्वेनोपलक्षितं शुद्धं ब्रह्मापि भवति विशिष्टब्रह्मनिष्ठस्य तस्य विशेष्यीभूतशुद्धेऽपि सत्त्वात् । वाच्यत्वस्थले ज्ञेयत्वं वा निवेश्यम् । तद्ज्ञानीयमुख्यविशेष्यतानिष्ठानवच्छिन्नावच्छेदकताकप्रतियोगितानिरूपकभेदत्वेन मुख्यविशेष्यतासम्बन्धावच्छिन्नतद्ज्ञानव्यक्तित्वावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वेन वा निवेशान्न व्यापकत्वादिनिवेशकतगौरवादिकम् । तेन 'घटादिकं ब्रह्मवृत्तित्वविशिष्टतादृशविशेष्यताकन्ने' ति प्रतीतेः घटादौ तादृशविशेप्यतावनेदसत्त्वात् सिद्धसाधनमिति परास्तम् । तादृशप्रतीतिविषयीभूतायाः भेदप्रतियोगितावच्छेदकतायाः ब्रह्मवृत्तित्वावच्छिन्नत्वेनानवच्छिन्नत्वविशेषणेन तस्याः वारणात् । ननु, बाध्यत्वाभावरूपो धर्मोऽपि न शुद्धे ब्रह्माणि । किं तु खोपहिते। भाववदभावेऽपि युक्तेस्तुल्यत्वात् तत्राह-निर्धमकत्वेनैवेति । अभावरूपधर्मानधिकरणत्वात् । सत्त्वाभावरूपधर्माधिकरणत्वस्याप्यसम्भवात् । तथा च सत्त्वाभावं ब्रह्मणि स्वीकृत्यातिव्याप्तिदानं तवासङ्गतम् । तस्मादभावरूपधर्मस्य न भावरूपधर्मतुल्ययुक्तिकत्वम् । प्रपञ्चे कल्पितस्य व्यावहारिकबाध्यत्वादेरमावस्याधिष्ठानब्रह्मस्वरूपत्वात् । अन्यथा तस्याऽपि व्यावहारिकत्वे उक्तबाध्यत्वप्रतिक्षेपकत्वासम्भवात् । तत्सम्भवस्वीकारपक्षेऽपि सत्यब्रह्मस्वरूपादतिरिक्तस्य तादशाभावस्वरूपस्य कल्पने गौरवात् अतिरिक्ततादृशस्वरूपस्वीकारपक्षेऽपि तस्य ब्रह्माणि त्वया सम्बन्धास्वीकारे सत्त्वाभावस्याप्यतिरिक्तस्य शुद्धब्रह्मसम्बन्धासम्भवात् न कोड पि दोष इति भावः । यत्तु, 'सत्त्वेन प्रतीयमानत्वरूपोऽसत्त्वाभावोऽलीकेऽप्यस्तीति तद्धटितं लक्षणमयुक्त मिति तन्न । सत्त्वेन प्रतीयमानत्वस्य सत्तादात्म्यतद्वदन्यतरत्वपर्यवसितस्य निवेशसम्भवात् । न चैवं सत्प्रतियोगिकत्वविशिष्टतादात्म्यस्य ब्रह्मण्यसम्भवात् ब्रह्मवारणस्य तेनैव सम्भवेन सत्त्वाभावोपादानं व्यर्थमिति वाच्यम् । परमते घटाद्यात्मकसत्प्रतियोगिकत्वविशिष्टतादात्म्यस्य सदूपघटत्वादौ सम्भवेन प्रपञ्चस्य सदूपायावृत्त्यसम्भवेन अनुमाने सिद्धसाधनात् । विजातीयव्यावृत्यसम्भवेन लक्षणालाभाच्च।
॥ इति सदसद्विलक्षणत्वरूपमिथ्यात्वविचारः ॥ 'नेहनानास्ती'त्यादिश्रुत्यत्थें विवदमानं प्रति साध्यान्तरमाह-प्रतिपन्नेत्यादि । प्रतिपन्नः स्वप्रकारकधीविशेष्यः य उपाधिरधिकरणं तन्निष्टो यस्त्रैकालिकनिषेघोऽत्यन्ताभावस्तत्प्रतियोगित्वमित्यर्थः । कपालादिनिष्ठभेदध्वंसादिप्रतियोगित्वमादाय सिद्धसाधनं स्यादतस्त्रैकालिकेति । अद्वैतहानिः ‘नेह
For Private and Personal Use Only