SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी । नाने'त्यादिश्रुतिबोधितस्य ब्रह्मणि दृश्यसामान्याभावस्य विरोधः । सिद्धसा. धनमिति । कपाले घटो नास्तीत्यादिभ्रमे प्रातीतिकस्यात्यन्ताभावस्य विषयत्वेन सिद्धसाधनमित्यर्थः । व्यावहारिकत्वे ब्रह्मज्ञानवाध्यत्वे । तात्विकसत्याविरोधितया प्रतियोगिनः प्रपञ्चस्याबाध्यत्वेऽपि तदधिकरणे सम्भाविततया । अर्थान्तरं प्रपञ्चे सत्यत्वविरोधिमिथ्यात्वसिद्धिरूपात् प्रकृतानुमानप्रयोजनादन्यस्य साध्यसिद्धिमात्ररूपप्रयोजनस्य सिद्धिः । अद्वतश्रुतेः 'नेह नानेत्यादि' श्रुतेः । अतत्वावेदकत्वं बाध्यविषयकत्वरूपम् । तत्प्रतियोगिनो व्यावहारिकात्यन्ताभावप्रतियोगिनः । पारमार्थिकत्वमिति । समानसत्ताकयोर्भावाभावयोर्विरोधादभावस्य व्यावहारिकत्वे प्रतियोगिनः प्रातिभासिकत्वासम्भवेन पारमार्थिकत्वमेव वलात्स्यादिति भावः । ब्रह्माभिन्नत्वात् ब्रह्मस्वरूपात्यन्ताभिन्नत्वात् । निषेधस्य प्रपञ्चात्यन्ताभावत्वविविशिष्टतादात्म्यापन्नस्वरूपस्य । तथाचोक्तविशिष्टरूपेण निषेधस्य बाध्यत्वात् केवलरूपेण ब्रह्मात्यन्ताभेदान्नाद्वैतहानिरिति भावः । तात्विकत्वापत्तिरिति । अन्यथा मिथ्याप्रतियोगिकत्वेनाभावस्यापि मिथ्यात्वापत्तिः।निरूपकस्य मिथ्यात्वे निरूप्यस्य सत्यत्वासम्भवात् । न हि शुक्तिरूप्यादेस्सादृश्यादिकमप्रातिमासिकम् । किं तु प्रातीतिकेन शुक्तिरूप्यादिना निरूप्यत्वात् प्रातीतिकमेवेति भावः । उक्तविशिष्टरूपस्यैव मिथ्याप्रतियोगिनिरूपितत्वान्मिथ्यात्वम् । केवलरूपस्य तु ब्रह्मण उक्तनिरूपितत्वाभावान्न मिथ्यात्वम् । अत एव शुक्तिरूप्याद्यभावोऽप्यधिष्ठानचिटूपः प्रातीतिकप्रतियोगिनिरूपितत्वविशिष्टरूपेणैव प्रातीतिकः । अधिष्ठानतावच्छेदकशुक्त्यवच्छिन्नरूपेण प्रातीतिकप्रतियोग्युपलक्षिताभावत्वविशिष्टेन व्यावहारि कः।तात्विकस्तु केवलचिद्रूपेणेत्याशयेन समाधत्ते-तात्विकेत्यादि । व्यभिचारात्। यो यस्तात्विकस्वरूपाभावप्रतियोगी स तात्विक इति व्याप्तौ व्यभिचारात् । तथा च 'निरूपकं निरूप्यतावछेदकविशिष्टसमसत्ताकमेवेति व्याप्ति स्माकं सतिकरीति भावः । ननु, तकाधिकरणे भावाभावयोरसमसत्ताकत्त्वाव्यावहारिकस्य घटादेः प्रकृतानुमानात् प्रातीतिकाभावो वाच्यः । तथा च सिद्धसाधनं तदवस्थम् । तस्मातात्विक एवाभावो वाच्यस्तताह-अतात्विकत्वेऽपीति । अत्यन्ताभावत्वरूपेणाभावस्य प्रतियोगिनिरूप्यत्वात्तेनैव रूपेण प्रतियोगिविरोधित्वेन विरोधभङ्गार्थं प्रतियोगिभिन्नसत्ताकत्वमभावस्याकांक्षितम् । तदस्वीकृत्य केवलब्रह्मरूपेण भिन्नसत्तास्वीकारस्य व्यर्थत्वेनाभावस्य ब्रह्मस्वरूपत्वस्वीकारो व्यर्थः । भावाभावयोरेकाधिकरणे समसत्ताकत्वे तु न दोष इति स्वप्नगततदभावदृष्टान्तेन वक्ष्यत इति भावः। तात्विकसत्त्वा For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy