________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे द्वितीयमिथ्यात्वम् ] लघुचन्द्रिका । विरोधित्वात् । निषेधसत्तापेक्षया प्रतियोगिनोऽधिकसत्तायामविघातकत्वात्। निषेधस्य पारमार्थिकत्त्वे सत्येव प्रतियोगिनोऽपारमार्थिकत्वमायाति । भावाभावयोरेकाधिकरणे पारमार्थिकत्वासम्भवात्। अत एव स्वसमानाधिकरणस्वाधिकसत्ताकात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वम् । न तु स्वाधिकसत्ताद्यघटितमेव । प्रातीतिकतादृशात्यन्ताभावप्रतियोगित्वेन ज्ञातेऽपि शुक्तित्वादौ मिथ्यात्वाव्यवहारादिति भावः । स्वाप्नार्थस्यस्वप्ने आरोपितस्य गजादेः । स्वाप्ननिषेधेन स्वप्ने आरोपितमभावमादाय । बाधदर्शनात् मिथ्यात्वव्यवहारदर्शनात् । न तन्त्रं न व्याप्यम् । न्यूनेति । निषेधस्येत्यनुषज्यते। प्रकृते प्रपञ्चतत्सामानाधिकरणनिषेधयोः। तुल्यसत्ताकत्वात् व्यावहारिकत्वात्। विरोधित्वं प्रपञ्चनिषेधस्य प्रपञ्चपारमार्थिकत्वव्याघातकत्वम् । तथा च स्वान्यूनसत्ताकस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वं वाच्यम् । न तु स्वाधिकसत्ताघटितम् । स्वानार्थस्य स्वाप्नतदभावघटितमिथ्यात्वव्यवहारानुपपत्तेः । न च स्त्रप्ने प्रतीयमानेन व्यावहारिकात्यन्ताभावेनैव घटितं स्वानार्थस्य मिथ्यात्वं प्रतीयते ।. तथा . चाधिकसत्ताकात्यन्ताभावघटितमेव मिथ्यात्वं वाच्यमिति वाच्यम् । स्वप्ने व्यावहारिकस्य प्रत्यक्षज्ञानासम्भवादिन्द्रियाणामुपरतत्वादभावस्यानुभूयमानप्रत्यक्षत्वस्यापलापे स्वाप्नमात्रेऽपि स्मरणादेः वक्तुं शक्यत्वात् । तस्मात्तादशाभावे प्रातीतिकत्वस्यावश्यं वाच्यत्वात्स्वान्यनसत्ताकात्यन्ताभावघटितमेव मिथ्यात्वम् । ननु, किमिदमभावस्य स्वप्रतियोगिन्यूनसत्ताकत्वम् । उच्यते । प्रातिभासिकनिष्ठं व्यावहारिकपारमार्थिकान्यतरप्रतियोगिकत्वं व्यावहारिकनिष्ठं पारमार्थिकप्रतियोगिकत्वं चेत्यन्यतरवत्त्वम् । तथा च व्यावहारिकपारमार्थिकान्यतरनिष्ठं यत् प्रातिमासिकाभावप्रतियोगित्वं यच्च पारमार्थिकनिष्ठं व्यावहारिकाभावप्रतियोगित्वं तदन्यत् यत् स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् । तदेव मिथ्यात्वम् । 'व्यावहारिकः पारमार्थिको वा अयं घटः स्वसमानाधिकरणप्रातिभासिकात्यन्ताभावप्रतियोगीति ज्ञानकाले एतद्धटे मिथ्यात्वव्यवहाराभावात् 'पारमार्थिकमिदं पारमार्थिकान्यस्य स्वसमानाधिकरणात्यन्ताभावस्य प्रतियोगीति ज्ञानकाले इदं मिथ्येति व्यवहाराभावाच्च तदन्यदित्यन्तं प्रतियोगित्वविशेषणम् । ननु, पारमार्थिकत्वममिथ्यात्वम् । तथा च मिथ्यात्वघटितं मिथ्यात्वमित्यात्माश्रयः । ज्ञाननिवर्त्यत्वाभावरूपं पारमार्थिकत्वमेव घटकमित्युक्तावपि तद्धटितस्य प्रकृतमिथ्यात्वस्य मिथ्यालक्षणत्वानुपपत्तिः । ज्ञाननिवय॑त्वान्यवैयर्थ्यादिति चेन्न । धूमप्रागभावादौ धूमादेरिव ज्ञाननिवर्त्यत्वस्योक्तप्रतियोगित्वे विशेष
१. 'स्वानभावांशेऽपीति पाठान्तरम् ।
For Private and Personal Use Only