________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
उक्तं हि न्यायकुसुमाञ्जलौ - 'तादात्म्यमेव परस्य मते अभावाधिकरणयोस्सम्बन्ध' इति । परस्य भट्टस्येति तत्र वर्धमानादिटीका । न चैवमभावाधिकरणयोराधाराधेयभावानुपपत्तिरिति वाच्यम् । संयोगस्येव तादात्म्यस्यापि कस्यचिदाधारतानियामकत्वस्वीकारात् । घटाभावे घटो नास्तीत्यादौ सर्वैरपि तथा वाच्यत्वात् । अत एव घटे रूपमित्यादौ रूपत्वादिरूपेण तादात्म्येनैवाधारला । सम्बन्धान्तरास्वीकारात् । एतदभिप्रायेण द्वितीयमिथ्यात्वप्रस्तावान्ते आचार्येक्ष्यते । ब्रह्मणो भावरूपधर्मानाश्रयत्वेऽप्यभावरूपधर्माश्रयत्वेन सत्यत्वादिधर्मवत्त्वमिति ध्येयम् । न च मिथ्यात्वमेव बाध्यत्वम् । तथा चात्माश्रय इति वाच्यम् । ज्ञाननिवर्त्यत्वरूपबाध्यत्वस्य प्रकृते निविष्टत्वेन सदसद्विलक्षणत्वरूपबाध्यत्वस्याभावानिवेशात् । ननु, ज्ञानानिवर्त्यत्वरूपसत्त्वाभावस्य निवेशे असत्त्वाभाक्य वैयर्थ्यम् । असत्त्वाभावस्यैव विशेष्यतया लक्षणे निवेशेन धमप्रागभाववदवैयर्थेऽपि सत्त्वाभावविशिष्टत्वरूपेणैव लक्षणत्वमुचितम् । न तु सत्वाभावविशिष्टासत्त्वाभावत्वेन, अभावद्वयत्वेन लक्षणत्वपक्षे सत्त्वाभावेतरांशवैय
यमिति चेन्न । ज्ञानानिवर्त्यत्वरूपसत्त्वाभावत्वेन निवेशे हि तदितरांशस्य ज्ञाननिवर्त्यत्वेतरांशस्यैव वा वैयर्थ्यं भवत्येव । परं तु तथा न निवेशः । दूषणान्तरसत्त्वात् । ज्ञानोछेद्यत्वरूपज्ञाननिवयित्वस्य वक्ष्यमाणस्य वादिप्रतिवाद्यादिसम्मतस्यैकस्याभावेन तदभावस्यैकरूपत्वाभावात् । ज्ञानानिवर्त्यरूपसद्भेदस्य निवेशपक्षे अस्मन्मते ब्रह्ममात्रविषयकतत्तद्धीविषयत्वम्वरूपस्यैव लाघवेनोक्तभेदप्रतियोगितावच्छेदकत्वेन ज्ञानानिवर्त्यत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धेः । उक्तधीविषयत्वावच्छिन्नप्रतियोगिताकभेदनिवेशे सिद्धसाधनतापत्तेश्च । किं तु 'सत्यं सर्व वाच्य' मित्याकारकस्य पराभ्युपगतस्य कस्यचित् ज्ञानस्य यद्विषयत्वं तब्यक्त्यवच्छिन्नप्रतियोगिताकभेदत्वेन सद्भेदस्य तव्यक्त्यत्यन्ताभावत्वेन सत्त्वाभावस्य वा निवेशः । तादृशज्ञाने चास्मदभ्युपगतबाध्यत्वविरोध्यलीकव्यावृत्तसत्यत्वप्रकारकत्वं परैः स्वीक्रियते । तदीयमुख्यविशेष्यताव्यक्तेरत्यन्ताभावादिसाधने सिद्धसाधनं तैर्वक्तुमशक्यम् । मुख्यविशेष्यतात्वं च प्रकारतासांसर्गिकविषयतान्यविषयतात्वम् । तच्च विशेष्यताविशेष इव निर्विकल्पकज्ञानीयतुरीयविषयतायामप्यस्तीति परमते आद्यस्य मन्मते द्वितीयस्य नासङ्ग्रहः । मन्मते हि 'सत्यं सर्व वाच्य मिति वाक्ये सत्यादिसमानाधिकरणनामभिस्सत्यत्वाद्युपलक्षितशुद्धब्रह्मणो निर्विकल्पकधीरेव जायते इति तदीयविषयतालाभः । सर्वपदमहिम्ना सत्यत्वव्यापकविषयतालाभः । तेन किंचित् सत्यनिष्ठविषयतायाः कुत्र चित्सत्ये अ
For Private and Personal Use Only