________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।।
लाघवान्यायप्रयोगोऽप्युभयत्वेनैवेति वाच्यम् । न्यायप्रयोगोत्तरं प्रत्येकांशाप्रयोजकत्वे वादिना शङ्किते प्रत्येकांशतर्कोपन्यासक्रमेण प्रत्येकानुमित्योरुत्पादेन लाघवानवकाशादिति चेन्न । प्रत्येकानुमित्योरुत्पादेऽपि तयोः न्यायवाक्यतात्पर्याविषयत्वेनोभयत्वावच्छिन्नविधेयकानुमितेरेवोक्तवाक्यतात्पर्यविषयत्वरूपोद्देश्यत्वेन लाघवानपायात् । न च 'भेदाभेदवत् सदसद्भिन्न'मित्येव प्रयोगोऽस्तु । भेदाभेदोभयवत् सद्भेदासद्भेदोभयत्र' दिति प्रयोगे गौरवादिति वाच्यम् । सिद्धसाधनदोषस्योक्तत्वेनोक्तलाघवस्यासम्भवात् । अत एव वाङ्मनसे अनित्ये इति समूहालम्बनानुमिति मात्र सिद्धिसत्त्वेऽपि न जायत एवेति नव्यतार्किकाः । अप्रसिद्धविशेषणत्वं विशिष्टस्य साध्यत्वे साध्यविशेषणाप्रसिद्धिः । उभयस्य साध्यत्वे तु साध्यरूपविशेषणस्य क्वाप्यप्रमितत्वमन्वयदृष्टान्ताभावेन व्याप्त्यग्रहपर्यवसितदोषः । शशीयशृङ्गेति । ननु, विशिष्टस्य साधने दूषणमिदम् । मिलितस्य साधने तु दूषणं नोक्तमिति न्यूनतेति चेन्न । शशीयशृङ्गसाधनमित्यस्यैव हि द्वावौँ । शशीयत्वविशिष्टशृङ्गस्य संयोगादिसंबन्धेन साधनमित्येकः । शशीचं शृङ्गं चेति द्वयोस्तादात्म्यसंबन्धेन साधनमित्यन्यः । तथा च तादात्म्यसंबन्धेन तदुभयस्य क्वाप्यज्ञातत्वेन साध्याप्रसिद्ध्या उभयसाधनेऽपि दूषणमेतदेवेति भावः । निर्मकखादित्यादि । सत्त्वादिधर्माणां तदुपहिते एव ब्रह्मणि सम्बन्धः । न तु शुद्धे । धर्मधर्मिणोस्तादात्म्यस्वीकारेण तत्वज्ञानेन धर्माणां नाशे धर्मिणोऽपि नाशापत्तेः । अथ धर्मिसमानसत्ताकधर्मनाशे सत्येव धर्मिणो नाशः । आरोपितस्य वास्तवधर्मत्वाभावेन तन्नाशेऽपि न धर्मिनाशः । तहि शुद्धस्य सत्वेऽपि कैवल्ये तत्र धर्माप्रत्ययाच्छुद्धे धर्मो न स्वीक्रियते । तदुक्तमाचार्यैः-- 'रागेच्छा सुखदुःखादिबुद्वौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तनाशे तस्माद्बुद्धेस्तु नात्मनः ॥' इति । तस्माद्यथा शुद्धस्य स्वप्रकाशत्वेन न वृत्तिज्ञानविषयत्वादिकं, किं तु तदुपहित एव ब्रह्मणीति वाचस्पतिसम्मतं, तथोक्तयुक्तेस्सत्त्वादिधर्मसम्बन्धस्तदुपहित एव ब्रह्मणीति सत्त्वादिधर्माभावधटितमिथ्यात्वलक्षणं शुद्धब्रह्मण्यतिव्याप्तमिति भावः । सद्रूपत्वेन बाध्यत्वाभाववत्वेन । तथा च भावरूपधर्मानाश्रयत्वेऽपि ब्रह्मणो बाध्यत्वादिशून्यत्वरूपाभावरूपधर्माश्रयत्वात् नातिव्याप्तिः । न चोक्ताभावस्य ब्रह्मरूपाधिकरणस्वरूपत्वेन तदभावो ब्रह्मण्यस्त्येवेति वाच्यम् । उक्ताभावत्वविशिष्टरूपेण व्रझणि तादात्म्यस्येव भेदस्यापि सत्त्वेन तत्रोक्ताभाववैशिष्टयस्यैव सम्भवेन तदभावासम्भवात्। तादात्म्यमेव हि अमावस्याधिकरणवौशष्ट्यं भट्टादिमते स्वीक्रियते।
For Private and Personal Use Only