________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
रसादीनां न तादात्म्यमारोप्यते । घटादिविशिष्टचैतन्ये रूपरसादीनां युगपदारोपात् । एवं च कपालोपहितसत्तायां वस्तुगत्या विद्यमानं घटस्य यत्तादात्म्यं तस्य तादात्म्यत्वरूपेणैवोक्तसत्तायामिव कपालेऽपि संबद्धत्वेऽप्युक्तसत्वोपहिततादात्म्यस्य स्वरूपपरिचयार्थमुभयोपहितसत्तासम्बन्ध इत्युच्यते । उक्तसत्ताया अपि तादृशतादात्म्यरूपसम्बन्धपरिचायकत्वात् यथाश्रुतं त्वसङ्गतम् । उक्तयुक्तः । 'सन् घट 'इति प्रत्ययस्येव 'कपालं घट' इति प्रत्ययस्यापि तादात्म्यत्वविशिष्टसंसर्गविषयकत्वस्य सर्वानभाविकत्वात् । उक्तसंसर्गेणैव घटाद्युत्पत्तौ कपालादेलाघवेनोपादानकारणत्वादिकल्पनात् तादात्म्योपहितसत्तात्वादिविशिष्टसंसर्गेण तदत्पत्तौ तत्कल्पने गौरवान्मानाभावाच्चेत्यास्तां विस्तरः । तस्मादुक्तरीत्या भेदाभेदयोरविरोधादिकमुपपादनीयम् । वेदान्तदर्शने तु एकाधिकरणकस्वाप्नभावाभावदृष्टान्तेन मूले वक्ष्यमाणः व्यावहारिकयोः प्रपञ्चतदभावयोरविरोध इव भेदाभेदयोरविरोधः । अथवा व्यवहारदशायामेवाऽवयवावयविगुणगुण्यादिभेदस्य विचारेण मिथ्यात्वनिश्चयात्तादृशभेदः प्रातीतिकः । अभेदस्तु व्यावहारिकः । अतो भिन्नसत्ताकत्वेन तयोरविरोध इत्यादियुक्तिरपि बोध्या । भेदाभेदवादीति । भट्टसाङ्ख्यपातञ्जलादिभिः तार्किकादीन् प्रति क्रियमाणे न्यायप्रयोगे । भिन्नत्वस्य गुणगुण्याद्योभिन्नत्वस्य । सिद्धौ निश्चितत्वे । उद्देश्यप्रतीतेः उक्तप्रयोगतात्पर्यविषयीभूतायाः गुणादौ गुण्यादेर्भेदाभेदोभयवत्ताप्रतीतेरित्यर्थः । प्रकृते उक्तमिथ्यात्वसाधकन्यायप्रयोगे । मिलितप्रतीतेः सदसद्भेदादिरूपोभयवत्ताप्रतीतेः । तथा चोभयत्वरूपेणानुमितौ प्रत्येकरूपेण सिद्धेरप्रतिबन्धकत्वात् नोक्तदोष इति भावः । ननु, दृश्यत्वस्य सदन्यसकलनिष्ठत्वेन सदन्यत्वमात्रस्य दृश्यत्वोपपादकत्वेन तदेव साध्यतामित्यत आह-यथाचेत्यादि । अभेदे अत्यन्ताभेदे । सामानाधिकरण्येति । भेदसमानाधिकरणाभेदसंसर्गविषयकेत्यर्थः । मिलितस्य तत्प्रयोजकतयेति । उभयत्वविशिष्टस्य दृश्यत्वोपपादकतयेत्यर्थः । यथा सामानाधिकरण्यप्रतीतिविशेष्यत्वं ‘याभयं विनाऽपि स्यात् , तदा घटकुम्भयोरपि घटपटयोरपि वा स्यादिति तर्केण व्याप्तिग्रहादुभयं हेतूपपादकम् । तथा दृश्यत्वं 'याभयं विनाऽपि स्यात् , तदा तुच्छेऽपि ब्रह्मण्यपि वा स्या' दिति तर्केण व्याप्तिग्रहादुभयं तथेति भावः । ननूभयस्योपपादकत्वेऽपि प्रत्येकरूपेणैव साध्यतास्तु । 'यदि भिन्नं न स्यात् तदा समानाधिकृतं न स्या' दित्यादे ईष्टान्ते । 'यदिसत्स्यात् तदा दृश्यं न स्यादित्यादेः दाष्टान्तिके प्रत्येकरूपेण व्याप्तिग्राहकस्य तर्कस्य सम्भवात् । न चोभयत्वेन रूपेणैकस्यामनुमितौ
For Private and Personal Use Only