________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
वम् । यदि तु तादात्म्यद्वयं घटस्य स्वीक्रियते तयोः परस्परसम्बद्धता च स्वीक्रियते । तदान्योन्याश्रयः । तत्रापि गौरवञ्च । यदि तु तादात्म्यत्रयं स्वीकृत्य प्रथमस्य द्वितीयं सम्बन्धस्तस्य तु तृतीयं तस्य तु प्रथममित्युच्यते । तथापि चक्रकं गौरवञ्च । तादात्म्यमेकं स्वसम्बन्धिभ्यामतिरिक्तं तथैव प्रतीयनानत्वात् कल्प्यते। तदाऽनवस्थाद्यपेक्षया लाघवम् । अतः स्वस्यैव स्वं प्रति सम्बन्धत्वादात्माश्रयोऽपि स्वीक्रियते। अत एव बौद्धाधिकारशिरोमणौ घटाभावस्य स्ववृत्तित्वस्वीकारे आत्माश्रयेऽपि लाघवमुक्तम् । तच्च तादात्म्यं घटादौ रूपरसादेर्जायते। रूपादीनां नित्यत्वादुत्पत्तिनाशप्रत्ययस्य तादात्म्योत्पत्तिनाशविषयकत्वात् । पाकादिना घटादे शोत्पत्तिः रूपादीनां तादात्म्यस्य वेत्यत्र विनिगमकाभावादिति भट्टादिमतम् । मन्मते त्वविद्यादेः श्रुतियुक्तिसिद्धानादिताकात् भिन्नं दृश्यमात्रमुत्पत्तिनाशवदिति स्वीक्रियते । 'यावद्विकारन्तु विभागो लोकव' दिति न्यायात् । विभागः तादृशाविद्यादिभेदः यावद्विकारमुत्पत्तिमनतिक्रम्य वर्तते उत्पत्तिव्याप्य इति यावत्। 'यतो वा इमानि भूतानि जायन्त' इति श्रुताविमानि भूतानीति पदाभ्यामात्माविद्यादिभिन्नस्योत्पन्नमात्रस्योक्तेश्च । भूतानीत्युक्ते उत्पन्नत्वसामानाधिकरण्यमात्रेण ब्रह्मजन्यत्वं लम्यते इत्यतस्तदवच्छेदेन जन्यतालाभाय इमानीत्युक्तम् । सर्वाणीति तदर्थः । अथ वा भूतानि सत्तादात्म्यवन्ति । ब्रह्मभिन्नानीति यावत् । अविद्याद्यनादिवारणायेमानीति । अविद्याद्यनादिभिन्नानीत्यर्थः । विशेष्यतावच्छेदकीभूततादृशविशिष्टधर्मावच्छिन्नत्वस्योत्पत्तिमत्वे लाभस्त्वौत्सर्गिकव्युत्पत्या भवत्येव । तथा च कपालाद्यवच्छेदेन घटादेः घटाद्यवच्छेदेन कपालादेस्तादात्म्यं जायते । परस्पराध्यासोक्तरीत्या जन्यमात्रस्य तादात्म्यं जायते। यत्तु, कपालधटाभ्यामुपहिता सत्तैव तयोस्तादात्म्यमिति मतम् । तत्राध्यासिकतादात्म्येनैव चिद्रूपसत्ताया घटाद्युपहितत्त्वं वाच्यम् । तथा च कपालघटयोर्यत्तादात्म्यं सत्तायां सम्बन्धस्तदेव तयोरन्योन्यस्मिन्नपि सम्बन्धोऽस्तु । कपालादितादात्म्यापन्नसत्तानुयोगिकस्य घटादितादात्म्यस्य कपालाद्यनुयोगिकत्वसम्भवात् सत्तायामेकानुयोगिकत्वापरप्रतियोगिकत्वयोस्तादात्म्यत्वस्य च कल्पनापेक्षया एकप्रतियोगिकतया क्लुप्ते तादात्म्ये अपरानुयोगिकत्वमात्रस्य कल्पने लाघवात् । तस्मादयमाशयस्तत्रोन्नीयते उक्तरीत्या कपालघटयोस्तादात्म्यसम्बन्धस्वीकारे एकघटनिष्ठानां रूपरसादीनामपि मिथस्तादात्म्यापत्तिस्तेषामपि परस्परोपहिताया एकसत्तायाः स्वीकारात् । अतो यद्विशिष्टे सत्तारूपाधिष्ठानचैतन्ये आधारीभूते यस्यारोप्यस्य तादात्म्यमारोप्यते । तत्रैव तस्यारोप्यस्य तत्तादात्म्यं स्वीक्रियते । विशिष्टस्य तदनुयोगित्वेन विशेषणस्याऽपि तदनुयोगित्वात् । रूपादिविशिष्टे तु चैतन्ये
For Private and Personal Use Only