________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
इत्यादौ द्रव्यत्वोपहितस्य विशेष्यस्यापि विनिगमकाभावेन तादात्म्यत्वापत्तेः । अथ तस्य पटादिद्रव्येऽपि सत्त्वेन तत्रापि घटत्वोपहितप्रकारकज्ञानस्य भ्रमत्वानापत्त्या न तादात्म्यत्वापत्तिरिति चेत् सत्यम् । तथाऽपि विशेषणस्वरूपघटाद्यसम्बद्धपटादेरपि तत्तादात्म्यता स्यात् । विशेषणस्वरूपस्यापि तदसम्बद्धत्वेन विनिगमकाभावात् । न ह्यत्यन्ताभेदे सम्बद्धता सम्भवति । घटो घट इत्यादिप्रत्ययाभावात् । किञ्च खं न स्वीयमित्यनुभवेन स्वप्रतियोगिकत्वस्य स्वस्मिन्नसम्भवेन विशेषणस्य न स्वप्रतियोगिकतादात्म्यत्वसम्भवः । अथास्तां विशेषणतावच्छेदकघटत्वादेर्घटादितादात्म्यतेति चेन्न । शुद्धघटत्वादिविशेषणस्थले तदसम्भवात् । घटत्वत्वादिकमविषयीकृत्यैवायं घट इत्यादिबुद्ध्युदयात् तद्व्यक्तित्वस्य विशेषणतावच्छेदकत्वस्थले रूपरसाद्यनेकधर्मरूपस्य तद्व्यक्तित्वस्य तव्यक्तितादात्म्यत्वकल्पने गौरवात्तब्यक्त्युत्पत्तिकालावच्छेदेन रूपादेस्तव्यक्तावभावाच्च । तदन्यस्यैव तत्कालावस्थायिनस्तत्कल्पनाया आवश्यकत्वेन घटत्वादेविशेषणतावच्छेदकत्वस्थले ऽपि तादृशतादात्म्यभानसम्भवेन घटत्वादेस्तादात्म्यत्वाश्रयत्वकल्पने गौरवान्मानाभावाच्च । अथ घटादेस्तादात्म्यं तत्स्वरूपमेव । अभावादेः स्वरूपस्यैवाधिकरणे सम्बन्धत्वदर्शनात् । स्वरूपस्यापि सम्बन्धत्वोपपत्तेः । उक्तञ्च बौद्धा. धिकारे शिरोमणिना---'ज्ञानस्य स्वरूपमपि विषयतानामकस्तत्सम्बन्धः । अभावाधिकरणयोः स्वरूपवदिति चेन्न । स्वं न स्वीयमित्याधुक्तानुपपत्तेः । अभावाधिकरणयोरपि स्वरूपान्यस्यैव सम्बन्धत्वात् । अत एव विषयतापि न ज्ञानस्वरूपति तत्रैव तेनैव पश्चादुक्तम् । अथ घटादिविशेषणस्वरूपस्यापितादात्म्यत्वरूपेण घटादितो भेदसम्भवेन घटादिप्रतियोगिकत्वसम्भवात्तदीयतादात्म्यत्वमुपपद्यत इतिचेन्न। घटादौ तादात्म्यत्वकल्पनायाः पूर्वं तस्य तत्सम्बद्धत्वासिध्या तस्या असिद्धेः । न हि घटत्वविशिष्टप्रतियोगिकतादात्म्यत्वासिद्धेः पूर्वं तादात्म्येन तत्सम्बद्धं किञ्चित् सिद्धमस्ति । येन तत्सम्बद्धस्य तादात्म्यत्वमात्रं कल्प्येत । तथाच भेदे सिद्धे तादात्म्यत्वं कल्प्यं तादात्म्यत्वे क्लप्ते तद्रुपहितरूपेण भेदसिद्धिरित्यन्योन्याश्रयः । तस्मात्तादात्म्यत्वमिव तदाश्रयस्तत्र घटादिसम्बन्ध इति त्रयमपि क्लुप्तघटादिभ्योऽतिरिक्तं कल्प्यते । तत्र तादात्म्ये तदन्यस्य घटादिसम्बन्धस्य कल्पने अनवस्थानाद्वरं तत्स्वरूपसम्बन्धेन घटादिसंबद्धत्वं तस्य स्वीक्रियते । अनवस्थापेक्षया आत्माश्रयस्य युक्तत्वात् । अनवस्थायां हि तादात्म्ये घटस्यैकस्स्म्बन्धो वाच्यः । असम्बद्धस्य तादात्म्यस्य सम्बन्धत्वासम्भवात् । एवं तत्रापि घटस्य सम्बन्धान्तरमेवं तत्रापीत्यादि महागौर
For Private and Personal Use Only