________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे प्रथममिथ्यात्वम् ]
लघुचन्द्रिका ।
२९
तरस्य शुद्धद्रव्यत्वावशष्टादपि भेदस्य व्यकस्य विशेष्यवि
नुभवे द्रव्यत्वघटत्वयोरेव भेदो भाति । न तु तदुपहितयोः । तथा च विशिष्टधीमात्रे विशेषणताविशेष्यतावच्छेदकयोरेव भेदभानेनैकधर्मविशिष्टयोविशिष्टज्ञानप्रमात्ववारणसम्भवाद्विशेष्यविशेषणयोरपि भेदो भातीत्यत्र न मानमिति वाच्यम् । विनिगमकाभावादुक्तानुभवस्योपाध्योरिवोपहितयोरपि भेदे मानत्वात् । अनुभवान्तरस्य शुद्धद्रव्यत्वघटत्वयोमैदावगाहिनोऽभावात् । केवले घटे नीलत्वादिविशिष्टादिव द्रव्यत्वादिविशिष्टादपि भेदस्य पूर्वोक्तयुक्तिभिर्व्यवस्थापितत्वात् । तद्धटः तद्धटवा' नित्याकारकस्य तद्धटविशेष्यकस्य विशेष्यविशेषणयोभैदाभाने प्रमात्वापत्तेश्च । तस्माद्दव्यत्वघटत्वोपहितयोर्भेदस्योक्तानुभवसिद्धत्वात् पूर्वोक्तानुयोगिताविशेषस्याप्रामाणिकत्वात् विशिष्टज्ञानमात्रस्य विशेष्यविशेषणभेदविषयकत्वमव्याहतम् । न चैवं 'घटो द्रव्यं ने 'त्यादिधीरपि प्रमा स्यादिति वाच्यम् । नभेदादिपदाभिलप्यज्ञाने तादात्म्यविरोधित्वविशिष्टभेदस्य विषयत्वात् । अत एव वृक्षे कृष्णसंयोगो नेत्यादिज्ञानेऽपि कृष्णसंयोगविरोध्यत्यन्ताभावस्यैव विषयत्वम् । नञादिपदस्य विरोध्यभावबोधकत्वेन तेनैव ताढशाभावज्ञानस्यैवाभिलापात् । विरोधस्य पदानुपस्थाप्यत्वेऽपि संसर्गविधया भानसम्भवात् । अत एव विरोधित्वमेकावच्छेदेनैकाधिकरणावृत्तित्वरूपम् । अत एव उक्तज्ञानोत्तरं घटो द्रव्यमित्यादिज्ञानस्य नोत्पत्तिः । प्रतियोगिसामानाधिकरण्यरूपाव्याप्यवृत्तित्वविशिष्टसंयोगाद्यभावज्ञानस्य तु नत्रादिपदानभिलप्यतया न संयोगादिविशिष्टधीविरोधित्वम् । अत एव च मूले वृक्षे न कृप्णसंयोग इत्यादिधीरपि मूले वृक्षे कृष्णसंयोग इति ज्ञाने नियमेन विरोधिनी । प्रतियोगिविरोधित्वविशिष्टाभावनिश्चयत्वेनैव विरोधित्वस्वीकारात् तादशस्यैव तथात्वेन सर्वानुभाविकत्वात् । अत एव च भूतले घटोऽस्ति न वेति संशयनिवृत्तये भूतले घटाभावोऽस्तीति न प्रयुज्यते किं तु भूतले घटो नास्तीति । एतेन विशिष्टकेवलयोर्भदे विशिष्टसत्ता सत्ता नेति प्रमा स्यादिति शिरोमण्युक्तापत्तिरपास्ता । तस्मात् 'सामानाधिकरण्यप्रत्यये भेदाभेदौ भासेते' इति वाचस्पत्युक्तियुक्तैव । तत्र भेदो भेदत्वरूपाऽखण्डधर्मविशिष्टो भावोऽभावो वा यथा संभवं बोध्यः । अयं घटान्य इत्यादौ घटान्यस्य भेदो घटान्यत्वभेद एव। उपहितभेदस्योपाधिभेदात्मकत्वमित्युक्तस्वात् । तथा च तस्याभावप्रतियोगिकाभावत्वेनाधिकरणात्मकत्वादिदन्त्वनिष्ठत्वेनेदन्त्वरूपत्वात् भावरूप एव सः । 'अयं घट' इत्यादौ घटादिभेदोऽभावरूपः। अभेदस्तु तादात्म्यम् । तादात्म्यत्वञ्चाखण्डधर्मविशेष एव । ननु, तथाऽपि तादात्म्यं न विशेषणस्वरूपं द्रव्यं घट
For Private and Personal Use Only