________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र • दे तृतीयमिथ्यात्वम् ]
लघुचन्द्रिका ।
ऽपि घटादिचरमक्षणरूपो नाशो दण्डपातादिनन्यः । तदुत्तरक्षणरूपस्य तत्क्षणनाशस्यापि घटादिनाशत्वादग्रेऽपि तन्नाशव्यवहार इत्युच्यते, तदा तत्वज्ञानस्थलेऽपि तथा दर्शितमेव । ब्रह्मज्ञानोत्पत्तिद्वितीयक्षणस्य तु उत्तरक्षणाप्रसिद्धेः न तन्नाशस्याये ऽनुवृत्तिरिति स एव दृश्याब्धेस्तीररूपा मर्यादा ब्रह्मज्ञानं वा । सर्वथाऽपि ब्रह्मज्ञानं स्थिराया निवृत्तेः न जनकमिति सिद्धम्। ज्ञानव्यापकतावच्छेदकं यदज्ञानतत्संस्कारान्यतराभावत्वाज्ञानप्रयुक्ततत्संस्कारान्यतराभावत्वयोरन्यतरत्, तदाश्रयप्रतियोगित्वमज्ञानतत्प्रयुक्ततत्संस्कारसाधारणं ज्ञाननिवर्त्यत्वं, ज्ञानाधीनतावच्छेदकं यदुक्तान्यतरत्, तदाश्रयप्रतियोगित्वं वा, ज्ञानसाध्यतावच्छेदकं यदज्ञाननाशत्वमज्ञानप्रयुक्तनाशत्वं च तयोरन्यतरवत्त्वं वा, तादृशं यदज्ञानाभावत्वमज्ञानप्रयुक्ताभावत्वं च, तयोरन्यतरवत्त्वं वा, ज्ञानप्रयुक्तनिवृत्तित्वं तदाश्रयप्रतियोगित्वं वा, ज्ञाननिवर्त्य - त्वमिति पूर्वोक्तरीत्या निष्कर्षो बोध्यः । पटुतरसंस्कारादिविशिष्टज्ञानस्य कालिकसम्बन्धेन या व्याप्यता तन्निरूपितविशेषणतासम्बन्धावच्छिन्नव्यापकतावच्छेदकं यत् कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाज्ञानतत्संस्कारान्यतराभावत्वं, कालिकसम्बन्धेनोक्तज्ञानं प्रति विशेषणतासम्बन्धावच्छिन्नव्यापकतायामवच्छेदकं यत् स्वाश्रयकालपूर्वत्वसम्बन्धावच्छिन्नदृश्यत्वावच्छिन्नप्रतियोगिताकाभावत्वं च, तयोरन्यतराश्रयप्रतियोगित्वमिति दिक् । उदीच्यात्मविशेषगुणत्वेन विभुविशेषगुणत्वेन । सामानाधिकरण्यस्वपूर्वत्वोभयसम्बन्धेन नाशकत्वमिति नातिप्रसङ्गः । यथाश्रुते समानाधिकरणयोग्यविभुविशेषगुणत्वेन नाश्यत्वाच्छब्दं प्रति नाशकत्वासम्भवात् । अथवा सामानाधिकरण्यस्य निवेशे प्रयोजनाभावात् आत्मगुणत्वेनैव नाशकत्वम् । लाघवादाह-उदीच्यत्वेनेति । उदीच्यत्वव्यापिका योग्यविभुविशेषगुणनाशकतेत्यर्थः । तथा च ज्ञानत्वेच्छात्वादिप्रत्येकरूपेण जातिविशेषेण वा सेति भावः । साधनादीत्यादिनोक्ताथान्तरम् । अनुभवसिद्धं विलक्षणस्मृतिरूपकार्यानुमेयम् । ननु, विलक्षणस्मृत्या विलक्षण एव संस्कारोऽनुमीयते । तथा च स्मृत्या पूर्वसंस्कारो नश्यत्येव । तत्राह---दृढत्वं चेति । समेत्यादि । तथा च समानविषयकत्वसामानाधिकरण्योभयसम्बन्धेन संस्कारविशिष्टसंस्कारत्वेन तत्समनियतजातिविशेषेण वा विलक्षणस्मृतिहेतुत्वे स्वीकृतेऽपि स्मृतेः संस्कार प्रति नाशकता न कल्प्यते। गौरवादिति भावः । न च स्मृतिधारापत्तिः । उद्बोधकविच्छेदात् । संशये विपरीतज्ञाने ।, ननु, विपरीतज्ञानस्यानादिसंसर्गाभाव एव निश्चयरूपप्रतिबन्धकप्रयुक्तः । न तु नाशः । अतः कथं विपरीतज्ञानेऽतिव्याप्तिः । ज्ञानजन्यनाशस्यैव हि प्रकृतलक्षणे निवेशः । अन्यथा उत्तरज्ञाननाश्यत्वमादाय सिद्धसाधनस्योक्त्यसम्भव इ
For Private and Personal Use Only