________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
ति चेत्सत्यम् । यदि ज्ञानप्रयुक्तात्यन्ताभावप्रतियोगित्वं ज्ञाननिवर्त्यत्वं स्वीकृत्य तन्नाशकस्यापि तदत्यन्ताभावप्रयोजकत्वं स्वीक्रियते, 'उत्तरज्ञानात् पूर्वज्ञानात्यन्ताभाव' इति धीश्च स्वीक्रियते, तदापि साक्षात्कारत्वेन प्रयोजकतानिवेशेन विपरीतज्ञानातिव्याप्तिर्वारयितुं शक्यत इति भावः । ज्ञानप्रयुक्ताभावप्रतियोगित्वरूपं लक्षणं स्वीकृत्य वा पूर्वीपरग्रन्थसङ्गतिः । न च तथापि प्रवृत्तिप्रागभावेऽतिव्याप्तिः । उपादानप्रत्यक्षस्य साक्षात्कारत्वेन प्रवृत्तिरूपतन्नाशं प्रति प्रयोजकत्वादिति वाच्यम् । प्रागभावस्यानङ्गीकारात्, नाशत्वेनात्यन्ताभावत्वेन वा प्रयोज्यतानिवेशाछा । ननु, स्पार्शनादिरूपे शुक्त्यादिसाक्षात्कारे सत्यपि चाक्षुषादिरूपस्य रजतादिभ्रमस्योत्पत्त्या तदिन्द्रियप्रयोज्यरजतादिभ्रमहेत्वज्ञाने तदिन्द्रियप्रयोज्यशुक्त्यादिधीत्वेन निवर्तकत्वमावश्यकम् । तथा च साक्षात्कारत्वेन न तदिति चेत् । तथा सति वह्नयादेः स्पार्शनाद्युत्तरं तत्र तदन्यत्वचाक्षुषाद्यापत्तेः । तस्य इष्टत्वे अनुभवविरोधात् । क्वचिद्भिन्नेन्द्रियजन्यज्ञानस्यानिवर्तकत्वं तु तत्राप्रामाण्यज्ञानात् । समानेन्द्रियत्वान्तर्भावेण निवर्तकत्वस्वीकारेऽपि 'यद्विशेषयो' रिति न्यायेन साक्षात्कारत्वेनापि निवर्तकत्वस्वीकाराच । न च सेतुदर्शननाश्यपापेऽतिव्याप्तिः । 'सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्या व्यपोहती' त्यादिस्मृत्या सेतुचाक्षुषत्वेनैव तत्र निवलेकत्वबोधनादिति भावः ॥ इति लघुचन्द्रिकायां ज्ञाननिवर्त्यत्वनिरूपणम् ॥
अधिकरण एवेति । एवकारः अशेषार्थकः । अशेषत्वं च व्यापकत्वम् । तथा च वाच्य एव मेयत्वमित्यादौ वाच्यत्वे मेयत्वस्येव प्रकृते स्वात्यन्ताभावे स्वप्रकारकधीविशेष्यत्वस्य व्यापकतालाभात् उक्तव्यापकत्वाश्रयात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । पूर्ववैलक्षण्यं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वरूपात् प्रतिपन्नेत्यादिनोक्तरूपाद्वैलक्षण्यम् । दूषणेति । कपालादौ संयोगादिसम्बन्धेन घटाद्यभावमादाय सिद्धसाधनादीत्यर्थः । पूर्ववदिति । येन सम्बन्धेन यद्वत्तया प्रतीतं यद्यत्, तन्निष्ठाभावीयं यत्, तत्सम्बन्धावच्छिन्नं प्रतियोगित्वमित्यादिविवक्षयेत्यर्थः । सं योगिनि देशे तदुत्पत्तिकाले प्रलयादौ वा प्रतियोगिसंयोगोच्छेदनात्यन्ताभावसत्त्वे विरोधाभावादाह-समवायिनीति । समवायेन नित्ययुक्त इत्यर्थः । तथा च घटादौ पाकेन रूपादेशिकाले तदुत्पत्तिपूर्वकाले वा तदत्यन्ताभावस्य दर्शनेन तयोरविरोधेऽपि घटत्वादेर्घटादौ समवायस्य घटाद्याधारे सर्वकाले सत्त्वेन तत्र घटत्वाद्यत्यन्ताभावस्य विरोधेनासम्भवः । अत्यन्ताभावस्य स्वप्रतियोगिविरोधग्राहकमानस्य मिथ्यात्वग्राहकमानेन नाभिभव इत्यभिमानः । ननु, कालभेदेन कपालादौ घटादित
For Private and Personal Use Only