SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भदैतमझरी । योगत्वादिरूपेण प्रत्यक्षामावेन सम्बन्धप्रत्यक्षं प्रति सम्बन्धितावच्छेदकरूपेण सम्बन्धिप्रत्यक्षस्य हेतुत्वेन प्रागभावत्वरूपेणाप्रत्यक्षे तेन रूपेण प्रत्यक्षासम्भवात् । अन्त्यकल्पे वक्ष्यमाणदोषस्यात्रापि सम्भवाच्च । नान्त्यः । तादृशदृष्टान्तेन घटादौ स्वदेशकालवृत्त्यत्यन्तामावप्रतियोगित्वस्यापि तव्यक्तित्वेनैव प्रत्यक्षसिद्ध्या तदवच्छिनामावस्यैव प्रत्यक्षसिद्धावपि तादृशामावप्रतियोगित्वत्वावच्छिन्नाभावप्रत्यक्षानुपपादनात् । अयमत्रैव नान्यत्रेति प्रत्यक्षं तु सम्भवत्येव । सन्निकृष्टदेशान्तरनिष्ठात्यन्तामावस्य प्रत्यक्षत्वेन तत्प्रतियोगित्वाश्रयस्यापि सन्निलष्टत्वेन च तादृशप्रतियोगित्वप्रत्यक्षसम्मवात् । देशान्तरासन्निकर्षे तु तादृशप्रत्यक्षं न सम्भवत्येव । किं च अयमत्रैव नान्यत्रे' त्याकारज्ञानस्य देशान्तरनिष्ठात्यन्तामावप्रतियोग्ययमित्यर्थकत्वे घटत्वमत्रैव नान्यत्रेति ज्ञानस्यापि प्रमात्वापत्तिः । अथात्रैवेत्येवकारार्थस्यैव नान्यत्वेत्यनेनानुवादात् , एवकारस्य चैतदन्यासंयुक्तत्वबोधकत्वे 'द्रव्यं द्रव्यमेव ' त्यादौ द्रव्यान्यासंयुक्तत्वस्याप्रसिद्धस्य बोधकत्वासम्भवात् एतद्देशान्यत्वाक्च्छेदेन वर्तमानात्यन्ताभावप्रतियोग्ययमित्यर्थकत्वं वाच्यम् । तत्र विशेष्यासन्निकर्षस्यामावाप्रत्यक्षत्वे त्वदुक्तहेतुत्वासम्भवः । न ह्यत्र देशो विशेष्यः । किं तु विशेषणम् । 'अयमेव देश एतद्वा' नित्यादावेव देशस्य विशेष्यत्वात् । अथ देश एव विशेष्यपदेनोक्तः, तेथाप्ययुक्तम् । कस्य चिद्देशस्य सन्निकर्षात् । न ह्यत्रैतदन्यसर्वदेशमानम् । तस्माध्यापकत्वमेवायोग्यम् । न च मनोभिन्नावृत्तित्वादिघटितेन मनस्त्वत्वेन मनस्त्वोपलब्ध्यापादनासम्भवेऽपि . घटादौ मनस्त्वाभाव इव तादृशप्रतियोगितात्वेन तादृशप्रतियोगित्वोपलम्भापादनासम्भवेऽपि तदमावः प्रत्यक्षोऽस्त्विति वाच्यम् । मनस्त्वत्वरूपेण हि न मनस्त्वस्याभावः प्रत्यक्षः । तादृशरूपस्यायोग्यघटितत्वात् । अत एव 'घटत्वत्वादिना न घटत्वाद्यभावस्य प्रत्यक्षते'ति शिरोमणिः । किं तु मनस्समवेतत्वेनैव । घटादौ हि मनस्त्वसत्त्वे मनसो योग्यत्वापत्त्या 'मनस्त्वं यदि घटे स्यात् , तदा मनस्समवेतत्त्वेनोपलभ्येते' त्यादिरीत्या मनस्समवेतत्वविशिष्टस्योपलम्मापादनसम्भवेन तदभावस्य प्रत्यक्षसम्भवः । न च घटादौ मनस्त्वसत्त्वे गुरुत्वादेरपि मनस्समवेतत्वापत्त्या तेन रूपेणोपलम्भापादनासम्भव इति वाच्यम् । मनस्त्वीयसमवायेनाधेयत्वस्यैव मनस्समवेतत्वरूपत्वात् । सर्वदेशेत्यादिकं तु स्वपित्रादीन् प्रत्येव वाच्यम् । यादृशाभावो हि तार्किकादीनां प्रत्यक्षः तस्यैव त्वया साक्षिमास्यतायाः मां प्रति वाच्यत्वात् । अन्यथा अतिप्रसङ्गात् । तार्किकादिवाक्यं तु उक्तमेव । ननु, उक्तप्रतियोगित्वाभावस्य लौकिकप्रत्यक्षासम्मवेऽपि सामान्य प्रत्यासक्त्या वा For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy