________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षबाधोद्धारः]
लघुचन्द्रिका ।
ज्ञानप्रत्यासक्त्या वा अलौकिकप्रत्यक्षमस्तु । तावता मिथ्यात्वानुमानासम्भवः ! न ह्यनुमितौ लौकिकप्रत्यक्षस्यैव बाधविधया विरोधित्वम् । किं तु तदभावनिश्चयमात्रस्य । तत्राह-वस्तुत इति । सामान्यं इन्द्रियलौकिकसन्निकर्षविशिष्टविशेष्यकज्ञानप्रकारीभूतधर्मः । इन्द्रियप्रत्यासक्तिः । तादृशसामान्याश्रयनिष्ठेनालौ - किकविशेष्यतासम्बन्धेन प्रत्यक्ष प्रति कारणीभूतस्येन्द्रियस्य सन्निकर्षविधया कारणम् । तस्यापि पर्वतीयधूमस्यापि । बिशेष्यन्द्रियसमिकर्षेति । मुख्यविशेष्यन्द्रिययोः लौकिकसन्निकषैत्यर्थः । बहिरिन्द्रियाणां स्वकीयलौकिकसन्निकर्षाश्रयमुख्यविशेष्यकज्ञानजनकत्वनियमान्मुख्यविशेष्यांशे लौकिकसन्निकर्षस्य बहिरिन्द्रियजन्यप्रत्यक्षे अपेक्षेति भावः । यो यत्र पुरावगतः, स एव तत्र संस्कारवशादलौकिकप्रत्यक्षे भाति । यत्र यो न पुरावगतः, तत्र तस्य धीरनुमित्यादिरेवेति प्राचीनतार्किकादिमते उपनयसन्निकर्षास्वीकर्तृमते हेतुनिष्ठं सामानाधिकरण्यमेव व्याप्तिः । न तु साध्यसमानाधिकरणवृत्तिहेतुतावच्छेदकमिति पक्षे च महानसीय एव धूमे गृहीतस्मृतव्याप्तेः पर्वतीयधूमे प्रत्यक्षासम्मवादाह-व्याप्तिस्त्वितीति । यथाश्रुतार्थकमिदं प्रामाकारादिमते बोध्यम् । मन्मते तु प्रकारेण प्रकारतायोग्येन । विषयो विषयतायोग्यः । तादृशयोग्यत्वं चोबुद्धसंस्कारज्ञानयोप्तिविषयकयोः यत् अन्यतरत् तद्विषयत्वम् । तथा च -प्राभाकरादिमते धूमत्वाद्यकरूपेण व्याप्तिपक्षधर्मताज्ञानयोरिव मन्मते तयोर्वा तेन रूपेण व्याप्तिविषयकोबुद्धसंस्कारपक्षधर्मताज्ञानयोर्वा हेतुत्वम् । व्याप्तिविशिष्टवैशिष्ट्यज्ञानस्य तन्मते अनावश्यकत्ववत् मन्मते व्याप्तिज्ञानस्याप्यनावश्यकत्वात् । तादृशज्ञानद्वयोत्तरमुक्तवैशिष्ट्यधीव्यक्तीनामिव व्याप्तिविषयकोबुद्धसंस्कारपक्षधमताज्ञानोत्तरं व्याप्तिस्मृतिव्यक्तीनामनुमित्युत्पत्त्यर्थ कल्पने महागौरवात् । उक्तं हि पञ्चपाद्याम्-'लिङ्गज्ञानव्याप्तिसंस्कारयोस्सम्भूय लिङ्गिज्ञानहेतुत्वम् । संस्कारानुबोधे तदभावात् । तस्माल्लिङ्गज्ञानमेव लिङ्गिसम्बन्धसंस्कारमुबोध्य - तत्सहितं लिङ्गिज्ञानं जनयतीति । उद्बोध्य स्वतः स्वजन्यवह्रिज्ञानादितो वा, स्वपूर्ववर्तिनो अन्यस्माद्वा, उद्बोध्य । तेन धूमवत्ताज्ञानस्य कदाचिदुद्बोधकत्वाभावेऽपि न क्षतिः । स्वपूर्ववर्तिन उद्बोधकत्वेऽपि पूर्ववर्तितासम्बन्धेन स्वस्य तव्यावतकत्वेन परम्परयोद्बोधकत्वम् । करणीभूतव्यक्तिव्यावर्तकत्वेन जातिगुणयोः करणत्ववत् । अतो लिङ्गज्ञानमेवोद्बोध्यं. जनयतीति नासङ्गतम् । अन्यस्योद्वोधकत्वेऽपि लिङ्गज्ञानस्य तव्यावर्तकत्वेन प्राधान्यविवक्षया तदुक्तेः । व्याप्तिस्मृतिप्रयोजकत्वेन पराभिमतानामुबोधकानां शक्तिविशेषरूपे संस्कारोबोधे
For Private and Personal Use Only