SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२६ www.kobatirth.org अद्वैत । Acharya Shri Kailassagarsuri Gyanmandir हेतुत्वसम्भवेन तादृशशक्तिमत्संस्कारसहितं लिङ्गज्ञानमनुमितिहेतुः । प्राचीनमते उद्बोधकजनितशक्तिकस्यैव संस्कारस्य स्मृत्यादिहेतुत्वात् । 'संस्कारेण स्मृत्यादौ जननीये तत्सहकारित्वमेवोद्बोधकत्व' मिति नव्यमते तु तादृशोद्बोधकैस्सहितमेव लिङ्गज्ञानं तथा । संस्कारहेतुत्वे मानाभावात् । न च व्याप्तिस्मरणोत्तरं यत्र धूमवताज्ञानं यत्र वा व्याप्तिविशिष्ट धूमवत्तास्मृतिः प्रथमत एव जाता, तत्रानुमित्युत्पत्तये व्याप्तिधीत्वेनाऽपि हेतुत्वस्यावश्यकत्वात् गौरवमिति वाच्यम् । उद्बुद्धसंस्कारव्याप्तिज्ञानयोरेकशक्तिमत्तया हेतुत्वस्य प्राचीनमते स्वीकारात् । केवलसंस्कारात् उद्बुद्धसंस्कारस्यातिरिक्तत्वेन तत्रैव शक्तिविशेषस्वीकारात् । अनतिरिक्तत्वेऽपि नानुद्बुद्धसंस्कारादनुमितिः । उद्बोधकालावच्छिन्नशक्तिस्वीकारात् । नव्यमते संस्कारोद्बोधकेषु व्याप्तिज्ञानेषु व्याप्तिज्ञाने च पर्याप्ताया एकशक्तेरस्वीकारात् । अत एव नानालिङ्गकपरामर्शेभ्यः अनुमितिरुपपन्ना । तावत्सु तस्यास्सम्भवात् । यदि चानुमितौ पक्षसाध्यसंसर्गेतरस्य घटादेः स्मृत्यादिसामग्रीतो भानं नानुभवविरुद्धं, तदा तादृशोshahयो व्याप्तिस्मृत्यादिसामग्रीतः पक्षधर्मतायाश्च तस्यां भानमास्ताम् । अत एवो बुद्धसंस्कारोत्तरं व्याप्त्यादिस्मरणस्य नापलापः । अनुमितेरेव व्याप्त्याद्यंशे स्मृतित्वस्वीकारात् । अन्यथा त्वनुमितिसामग्री तद्भाने प्रतिबन्धिकास्तु । न च संस्कारस्याप्यनुमितिजनकत्वे न्यायप्रयोगस्थले उपाध्युद्भावनं नियमतो न स्यात् । तत्कार्यस्य व्यभिचारज्ञानस्य अनुमितिकारणसंस्काराप्रतिबन्धकत्वादिति वाच्यम् । विरोधिनिश्रयस्य संस्कारनाशकत्वेन व्याप्तिसंस्कारनाशार्थं व्याप्तिधीप्रतिबन्धार्थं वा व्यभिचारज्ञानस्य साधनीयत्वेन नियमत उपाध्युद्भावनसम्भवात् । विरोधिनिश्वयस्य संस्कारानाशकत्वेऽपि विरोधिविषयकसंस्कारे संस्कारनाशकत्वस्यावश्यकत्वेन कारणीभूतसंस्कारविरोधिविषयक संस्कारजननाय व्यभिचारज्ञापकोपाध्युद्भावनसम्भवाच्च । ननु, प्राचां यत्र यस्य निश्चयः, तत्र तस्य रूपान्तरेणापि न संशयः । समानविशेष्यकताप्रत्यासक्त्यैव तयोर्विरोधित्वात् । तत्राह - निश्चितेऽपीति । वह्निव्यभि चारीति । वह्निव्याप्यत्वेन निश्चिततत्तमेभ्यो यत् भिन्नं तदित्यर्थः । प्राचा मते यथा 'रूपत्वं पार्थिवादित्रिविधरूपभिन्नवृत्ति न वेति संशयकाले वायौ पार्थिवादिरूपविशेषाभावनिश्वयेऽपि 'वायूरूपवान्न वे 'ति संशयः । यथा वा 'पार्थिवादिरूपाणि वायुवृत्तित्वाभाववन्तीति निश्वयेऽप्युक्तकाले 'रूपं वायुवृत्ति न वे 'ति संशयः, तथा 'धूमो वह्निव्याप्य' इति निश्चयेऽपि 'धूमत्वं तत्तद्धमभिन्नवृत्ति न वेति संशयकाले समानविषयक संशयस्यामतिबन्धकतायामतिरिक्तसम्भावनाया उत्तेजकत्वात् । न चैवं तादृशोत्तेजकस्य सदैव सम्भवात् निश्वयः कदापि विरोधी न स्यादिति For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy