SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र• दे प्रत्यक्षबाधोद्धारः ] www.kobatirth.org लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir १२७ वाच्यम् । रूपत्वावच्छेदेन पार्थिवादित्रिविधरूपान्यत्वाभावनिश्चयकाले तादृशसंशयस्यानुदयेन तस्यासार्वत्रिकत्वादिति भावः । भीषणीय इति । वस्तुतः तन्मते संवादिप्रवृत्तावेव प्रकाराश्रयत्वं नियामकमुच्यते । विसंवादिप्रवृत्तौ तु दोषः दोषसमवधानोत्तरविशेषणज्ञानं वा । प्रवृत्तिमात्रे तु उपस्थितयोरिष्टतावच्छेदकधर्मिणोरसंसर्गग्रह इति न दोष इति भावः । न चैकस्यां रजतव्यक्तौ ज्ञातायामन्यस्यां रजतव्यक्तौ प्रवृत्यापत्तिरिति वाच्यम् । ज्ञातरजतानामेकत्रेवान्यत्रापि प्रवृत्तेरन्यथाख्यातिमतेऽप्यापत्तेः । असाधारणकारणकल्पनात्तदभावात् व्यक्त्यन्तरे प्रवृत्त्यभावस्य मन्मतेऽपि सम्भवात् । व्यधिकरणप्रकारकत्वेति । यादृशप्रकारता स्वनिरूपितविशेष्यतासमानाधिकरणान्यवृत्तिः तादृशप्रकारताकत्वेत्यर्थः । स्वं प्रकारता रजतादिनिष्ठा । तन्निरूपितविशेष्यतासमानाधिकरणात् इदन्त्वादेर्भिन्ने रजतादौ तस्यासत्वात् । बाधितेति । मिथ्यत्यर्थः । विषयत्वेन विषयत्वघटितम् । विषयत्राधप्रयोज्यत्वात् । भ्रमविशेप्ये विशेषणाभावज्ञानज्ञाप्यत्वात् । तथा च भ्रमत्वज्ञानकाले तादृशाभावज्ञानस्यावश्यकत्वेन तादृशाभावघटितमिथ्यात्वघटितमेव भ्रमत्वं युक्तमिति भावः । न तु व्यधिकरणेत्यादिनेदं सूचितम् । तदीयतत्सम्बन्धानधिकरणे तत्सम्बन्धेन तत्प्रकारकधीत्वं तस्य तत्सम्बन्धेन भ्रमत्वमिति लक्षणकरणे सम्बन्धांशे भ्रमत्वं भ्रमे न स्यात् । व्यवह्रियते च तत्र तस्य भ्रमत्वं तान्त्रिकैः । अत एव साध्ये हेतुसमानकालत्वावगाहिन्या अनुमिते स्संसर्गी भूतकालांशे भ्रमत्वमुक्तं परामर्शग्रन्थे दीधित्यादौ । अथोक्तधीत्वं विशेषणस्येव तत्सम्बन्धस्याऽपि भ्रमत्वमिति चेत् । तर्हि हूदो वह्निमानित्यादिधीस्संयोगत्वविशिष्टस्य भ्रमः स्यात् । अथ विशेषणप्रतियोगिकसम्बन्धत्वविशिष्टस्यैव भ्रमत्वं तव । न तु सम्बन्धतावच्छेदकमात्रविशिष्टस्येति चेत् । तर्हि संयोगेन रूपप्रकारकधीः रूपे संयोगत्वविशिष्टस्य भ्रमो न स्यात् । एवं दूरस्थवृक्षद्वये ऐक्यविषयकस्य 'सोऽयमिति निर्विकल्पकस्य ध्यानादिसमये प्रभाविशेषादिनिर्विकल्पकस्य च भ्रमस्य भ्रमत्वं न स्यात् । व्यवहियते च तत्रापि लोके भ्रमत्वम् । तस्मात् बाधितविषयकत्वमेव भ्रमत्वम् । अत एवाबाधितविषयकत्वघटितप्रमात्वमपि निर्विकल्पकसाधारणम् । एतावांस्तु विशेषः 'यस्सोऽय' मिति वाक्यजन्यप्रमा तत्तेदन्त्वोपलक्षणप्रमाद्वारिका । तज्जन्यभ्रमस्तु तद्भ्रमद्वारक इति । तस्मादैक्यभ्रमो निर्विकल्पक सम्भवत्येव । ध्यानादिसमये प्रभादिनिर्विकल्पक भ्रमस्तु ध्यात्रादीनामनुभवसिद्ध एव । अस्मन्मते पूर्वोत्तरमीमांसकयोर्मते । भावान्तरत्वादिति । तदुक्तं ' नाभावोऽभाववै For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy