SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra १२८ अद्वैतमलरी। धात् नारोपो बाधहानितः । द्रव्यादिषट्कवैधात् ज्ञेयं मेयान्तरं तम' इति । 'तमो नीलं चलती'त्यादिप्रत्ययात् रूपादिमत्वेन घटादिष्विव तमस्यपि तद्वाधामावेन च गन्धाद्यभावात् पृथिव्यादिद्रव्यगुणादिवैलक्षण्येन च तमो द्रव्यान्तरमित्यर्थः । किं च द्रव्यचाक्षुषे आलोकप्रतियोगिकसंयोगो न हेतुः । मणिप्रभादौ तदभावेऽपि चाक्षुषोत्पत्तेः । नाप्यालोकप्रतियोगित्वोपलक्षितः संयोगः । आलोकप्रतियोगिकत्वसंयोगत्वयोः विशेषणविशेष्यभावे विनिगमकामावेन तदवच्छिन्नस्य कारणताद्वयापत्तेः । नाप्यन्यदेशावच्छिन्नादालोकसंयोगाचाक्षुपोत्पत्त्यसम्भवात् जातिविशेषस्येव द्रव्यादिचाक्षुषजनकतायां आलोकसंयोगनिष्ठायामवच्छेदकत्वं स्वीकार्यम् । सा च जातिरालोकनिष्ठे वाय्वादिसंयोगेऽपि सम्भवति । अत एव प्रमादिचाक्षुषमिति वाच्यम् । तादृशजातिस्संयोगत्वस्य विभागत्वस्य वा व्याप्येत्यत्र विनिगमकाभावात् । अत एवालोकप्रतियोगिकत्वोपलक्षितविजातीयत्वेनापि न हेतुतासम्भवः । आलोकघटादौ वायुविभागस्य सम्मवेन वायुप्रतियोगिकत्वविशिष्टविजातीयत्वेन हेतुतामादाय विनिगमकामावापत्तेः । किं तु तमस्त्वेन प्रतिबन्धकत्वमेव द्रव्यचाक्षुषं प्रति कल्प्यते । तदमावादेवोक्तप्रमादौ चाक्षुषोत्पत्तिः । न च तमोऽभावत्वेन कारणत्वेऽपि तमःप्रतियोगिकत्वाभावत्वयोविशेषणविशेष्यत्वस्याविनिगम्यत्वेन कारणताद्वयापत्तिरिति वाच्यम् । स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन तमस्त्वविशिष्टे विशेषणतासम्बन्धेन वर्तमानमभावत्वमेव हेतुतावच्छेदकम् । न तु विशेषणतासम्बन्धेनामावत्वविशिष्टे स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन वर्तमान तमस्त्वम् । उक्तप्रतियोगिताकत्वसम्बन्धेनैव तस्य हेतुतावच्छेदकत्वस्य वाच्यतया द्विधोक्तसम्बन्धप्रवेशे गौरवापत्तेः । अभावत्वं वा न निवेश्यते । उक्तप्रतियोगिताकत्वसम्बन्धेन तमस्त्वस्यैव हेतुतावच्छेदकत्वसम्भवात् । न च भेदवारणायात्यन्तामावत्वमवश्यं निवेश्यमिति वाच्यम् । सम्बन्धविशेषावच्छिन्नप्रतियोगिताया अवश्यं निवेश्यतया तत एव तद्वारणात् । यदि तु प्रतिबन्धकस्याभावो न हेतुः । किं तु प्रतिबन्धकं कार्यप्रागभावे क्षेमसाधारणकारणत्वाश्रयः । न च कारणकूटाश्रयक्षणोत्तरक्षणत्वस्य कार्योत्पत्तिव्याप्यतया प्रतिबन्धकसत्त्वेऽपि सकलकारणसत्त्वसम्भवात् कार्योत्पत्त्यापत्तिरिति वाच्यम् । सकलकारणाश्रयत्वस्य प्रतिबन्धकाभावसहितस्यैवोक्तव्याप्यतावच्छेदके प्रवेशादिति मतमाश्रीयते वा प्रतिबन्धकामावस्य हेतुत्वं तव्यक्तित्वेनैव । न तु. मण्याद्यमावत्वेन । न च मणिगगनान्यतरत्वावच्छिन्नाभावव्यक्तेरपि तव्यक्तित्वेन हेतुतापत्तिरिति वाच्यम् । तेन रूपेण दाहादिहेतुत्वेऽन्यथा सिद्धेः सर्वैरपि वाच्यत्वात् । तयक्तर्मणिसामान्याभावानतिरिक्तत्वाचेति मतं वा For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy