________________
www.kobatirth.org
प्र०दे प्रत्यक्षबाधोद्धारः ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
श्रीयते, तदा न काप्यनुपपत्तिः । न चोक्तरीत्या आलोक प्रतियोगिकत्वसंयोगत्वयोरपि विशेष्यविशेणभावव्यवस्थासम्भवात् तत्र पूर्वोक्तो विनिगमकाभावः कथमिति वाच्यम् । प्रतियोगितासम्बन्धेनालोक विशिष्टस्यैव निवेश्यतया पूर्वोक्तगौरवाभावेन विनिगमका भावस्यावश्यकत्वात् । न ह्यालोकत्वावच्छिन्नत्वं संयोगप्रतियोगितायां प्रामाणिकम् । येन तस्यैव लाघवान्निवेशेनालोकव्यक्तीनामप्यनिवेशो वाच्यः । न चालोकवानित्याकारधीर्विशिष्टस्य वैशिष्ट्यमिति विशेष्ये विशेषणं तत्रापि . विशेषणान्तरमिति च रीत्येति तत्र विषयभेदं विना ज्ञानयोर्वैलक्षण्यासम्भवः । 'अर्थेनैव विशेषो हि निराकारतया धिया ' मित्याचार्योक्तेः । तथा चाद्ये आलोकत्वावच्छिन्नप्रतियोगिताकसंयोगत्वेन भानम् । द्वितीये तु केवलं संयोगत्वेनेति प्रामाणिकमेवालोकत्वावच्छिन्नत्वं संयोगीयप्रतियोगितायामिति वाच्यम् । तत्र तस्य प्रामाणिकत्वेऽपि तादृशकारणतावच्छेदके तन्निवेशे प्रयोजनाभावात् । न चालोकव्यक्तीनामानन्त्येन तन्निवेशे गौरवेणोक्तावच्छिन्नत्वेन प्रतियोगितानिवेश एवं युक्तइति वाच्यम् । आलोकत्वावच्छिन्नस्यैकस्यैवावच्छेदकत्वस्य नानाव्यक्तिषु सम्भवेन गौरवाभावात् । तमस्त्वावच्छिन्नप्रतियोगिताकत्वं स्ववश्यमभावे निवेश्यम् । तमस्सत्त्व ऽपि तमोघटोभयाभावसत्त्वेनातिप्रसङ्गात् । यदि तु विशिष्टवैशिष्ट्यबुद्धावालोकत्वविशिष्टं विषयः । विशेष्ये विशेषणमिति ज्ञाने तु तदुपलक्षितम् । तद्विशिष्टतदुपलक्षितयोश्च भेदस्वीकारादुक्तज्ञानयोर्वैलक्षण्यं तदा संयोगीयप्रतियोगिताया आ लोकत्वावच्छिन्नत्वमप्रामाणिकमेव । तस्मात्तादात्म्यसम्बन्धेन तमस्त्वेन चाक्षुषं प्रति प्रतिबन्धकत्वम् । कपालादौ घटादिवि घटादौ । तदवच्छिन्नचिद्गतमूलाविद्यायाः परिणामस्तम इति तत्र तत्तादात्म्यसत्त्वात् (तत्काले न चाक्षुषम् । प्रभादौ तदभावाच्चाक्षुषम् ।) तमोध्वंसश्रालोकसंयोगादिरूप इति न तत्कल्पने गौरवम् । न च तमोऽभावत्वेन कारणतापक्षो न युक्तः । लाघवेन चाक्षुषहेतुतया भावरूपस्यैव वस्त्वन्तरस्य सिद्धेर्युक्तत्वादिति वाच्यम् । तस्य द्रव्यरूपत्वे घटादिचाक्षुषस्थले घटादावालोके च तस्य संयोगद्वयं कल्पनीयम् । अतीन्द्रियत्वसिद्धये स्पार्शनप्रत्यक्षे तादात्म्येन तस्य प्रतिबन्धकत्वम् । उद्भूतस्पर्शस्तत्र न जायते । तत्र तस्य प्रतिबन्धकत्वादिति वा कल्पनीयम् । तस्य चाक्षुषं न जायते । द्रव्यवृत्तिविषयतासम्बन्धेन चाक्षुषं प्रति तत्प्रतियोगिकसंयोगत्वेन हेतुत्वस्वीकारेण तत्प्रतियोगिकत्वविशिष्टसंयोगस्य तत्रासत्त्वादिति वाच्यम् । तथा च तमोऽभावत्वेन कारणत्वे तदपेक्षया न गौरवम् । यदि च तस्य संयोगसम्बन्धेन उक्तहेतुत्वं कल्पनीयम् । न तु तत्संयोगस्येत्यु१. 'अतत्कालीन चाक्षुषप्रमादौ तदभावाच्चाक्षुषम् ' इति पाठान्तरम् ।
१७
"
Acharya Shri Kailassagarsuri Gyanmandir
१२९
For Private and Personal Use Only