SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५. भद्वैतमञ्जरी । च्यते, तदापि विमागसम्बन्धेन तस्य हेतुतामादाय विनिगमकामावः । तस्य गुणक्रियान्यतररूपत्वेऽपि विभागादिरूपत्वे संयोगादिरूपतामादाय विनिगमकामावः । सामान्यरूपत्वे संयोगो विभागो वा तदाप्रय इति सः । तस्मात् भावरूपस्य तस्यासम्भवादभावरूपत्वमेव । स चाभावो न तमोनाशः । आलोकादौ तदसम्भवात् । अत एव न तमःप्रागभावः । किं तु तमोऽत्यन्ताभाव इति दिक् । न तु ज्ञातस्यति । आलोकस्य तमोनाशकत्वात्तमस आलोकाभावप्रयुक्तत्वेन तमोजन्यस्य तमश्चाक्षुषस्यालोकाभावप्रयुक्तत्वम् । उक्तं हि विवरणे-'आलोकविनाशितस्य तमसः पुनर्मूलकारणादेव जन्मे' ति । तथा चालोकस्याभाव एव तमोव्यञ्जकः । न तु तज्ज्ञानमिति भावः । अन्येषां उकतेनोविरहस्तम इतिवादिनां वैशेषिकादीनाम् । प्रतियोगितावच्छेदकेति । प्रौढप्रकाशत्वेत्यर्थः । तच्चोद्भूतानमिभूतरूपवन्महातेजस्त्वं प्रभास्वरूपा जातिर्वा । गोव्यक्तरिति । समवेतत्वसम्बन्धेन गोत्वरूपेण तस्या अवच्छेदकत्वमिति भावः । न च गोसमवेतस्य द्रव्यत्वादेर्घटादौ सत्त्वात्तत्र 'गोत्वं नास्तीति धीः प्रमा न स्यादिति वाच्यम् । उक्तसम्बन्धेन हि विशेषणविधयैव गौरवच्छेदिका। (वस्तुतस्तु तत्तद्गोव्यक्तिमात्रनिष्ठावच्छेदकता गोत्वनिष्ठा आधेयताविशेषावच्छिन्ना न केनापि धर्मेणावच्छिद्यते । शुद्धव्यक्तिमात्रस्यैवावच्छेदकत्वसम्भवेनानन्तगोव्यक्तित्वादिविशिष्टस्यावच्छेदकत्वे गौरवात् । जातीतरस्यानवच्छिन्नप्रकारत्वाभावेऽप्यनवच्छिन्नावच्छेदकत्वे बाधकाभावात् । तथा च गोत्वरूपे गोपदादुपस्थितस्यापि गोत्वोपलक्षितयत्किञ्चित्स्वरूपस्यैवावच्छेदकत्वेन भानम् । एवं च तत्तव्यक्तिरुपल. क्षणविधयैवावच्छेदिका । उक्तसम्बन्धेन तद्व्यक्तिविशिष्टस्य गोत्वस्य गवान्तरे सत्त्वाभावेन 'गवान्तरे गोत्वं नास्ती' ति प्रत्ययापत्त्या विशेषणविधया अवच्छेदकत्वासम्भवात् । अत एव मूले यत्किञ्चिद्गोव्यक्तेरेवेति व्यक्तिनिर्देशेन शुद्धव्यक्तेरवच्छेदकत्वमुक्तम् । एवकारस्य त्वयमर्थः । सकलगोवृत्तित्वादेर्भावप्रत्ययेनोपस्थितत्वेन गोत्वस्य विशेषणत्वेऽपि न प्रतियोगितावच्छेदकत्वमिति । अत एव गोत्वत्वरूपत्वादित्यस्य गोत्वामावप्रतियोगितावच्छेदकत्वेन भानादित्यर्थः । तथा च) यथा 'घटो नास्ती' त्यादिज्ञाने घटसामान्याभावस्य सर्वघटप्रतियोगिकस्यापि विशेषणतया कश्चिदेव घटो भाति, तथा 'गोत्वं नास्तीति ज्ञाने सकलगोव्यक्त्यवच्छिन्नप्रतियोगिताकेऽपि गोत्वाभावे प्रतियोगितावच्छेदकतया भासमानेन केनचित् गवा विशिष्टं गोत्वं विशेष १. 'उपलक्षणविधयावच्छेदकत्वं तु गर्वतरासमवेतत्वस्यैव । गोत्वत्वरूपत्वात् । 'गोत्वं नास्ती' ति ज्ञाने प्रतियोगितावच्छेदकतया भासमानत्वात् । प्रतियोग्यंशे गवंतरासमवेतत्वादेर्भानेऽपि त. स्य नावच्छेदकत्वेन भानम् । किं तु गोवरूपेण कस्याश्चित् गोः प्रकृतिभूतगोपदोपस्थापितायाः ।' इति पाठान्तरम् । . For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy