________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र ० दे प्रत्यक्षवाधोद्धारः ] लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१३१
।
णम् । न तु सर्वैर्गोभिरिति भावः । सकलगोवृत्तित्वस्यावच्छेदके प्रवेशेऽपि तस्य गोवृत्तिभेदप्रतियोगितानवच्छेदकत्वरूपत्वात् न सामान्यलक्षणापेक्षेत्यपि बोध्यम् । अत्र गोत्वस्य तादात्म्यसम्बन्धेन नावच्छेदकत्वं सम्भवति । अत्यन्ताभेदे सम्बन्धांसभवेन तस्य गोत्वासम्बन्धात् । गौरित्याकारकतत्तद्धीप्रकारत्वस्यापि नावच्छेदकत्वम् । अवच्छेदकाभेदे प्रकारभेदेन प्रकारत्वस्याभेदपक्षे तस्यातिप्रसक्तत्वात् । अतो गोव्यक्तिरेवेति युक्तम् । एतेनेति । अभावबुद्धौ प्रतियोग्यंशे प्रकारीभूतधर्मप्रकारकज्ञानस्यैव विशेषणतावच्छेदकप्रकारकधीविधया हेतुत्वम् । न तु प्रतियोगिभानस्येति स्वीकारेणेत्यर्थः । व्याख्यातेति । घटत्वादिना विद्यमानघटादिज्ञानात् भाविघटादिविशेषितप्रागभावत्वेन धीः शब्दादिना जायते । विद्यमानकार्ये शक्तिमत्तया गृहीताल्लिङादिपदात् प्राभाकरमते भाविकार्यधीवत् । शङ्केत्यादि । कालान्तरे देशान्तरे च वर्तमाने धूमे व्यभिचारस्यातीन्द्रिय पिशाचादावुपाधित्वस्य वा शङ्का चेदस्ति, तदा देशकालान्तरयोर्भाविभूतयोर्ज्ञानायानुमानमस्त्येव । जल्पेन प्रतिवादिनं निरस्य तत्त्वबुभुत्सुं प्रत्याह -- तर्कश्शङ्कावधिरिति । शङ्काया अवधिः सामग्रीविघटकः । ननु, तर्कस्यापि व्याप्तिधीमूलकत्वादनवस्था । तत्राह - व्याघातेति । आशङ्का उक्तानवस्था । 'यदि सर्वत्र शङ्कसे, तदा धूमाद्यर्थं वहयादौ तवैव प्रवृत्तिर्न स्यात्' इति तर्करूपेण व्याघातेन वारणीयेत्यर्थः । उक्तमिति । कालान्तरे व्यभिचरिष्यतीति कालं भाविनमाकलय्याशङ्कयेत, तदाकलनं च नानुमानमवधीरयेतेत्यनेनोक्तमित्यर्थः । पाकपूर्वकालीनः पाककालीनध्वंसप्रतियोगी । साध्येत्यादि । प्रकृतानुमानेन साध्यसिद्धौ सत्यामेव चरमपाकं ज्ञात्वा तत्र व्यभिचारो ज्ञातव्यः । तथा च साध्यसिद्धुत्तरं व्यभिचारज्ञानं व्यर्थमित्यर्थः । अन्यथा तस्य दोषत्वस्वीकारे । सिद्धीत्यादि । भावि यदि ज्ञातं, तदोक्तानुमानेनैवेति तत्सम्पत्तौ किं पाश्चात्येन व्यभिचारज्ञानेन । यदि च न ज्ञातम् तदा तत्र व्यभिचारो ज्ञातुमशक्य इत्युभयथापि व्याघातोक्तिसम्भवादित्यर्थः । पाककालीनध्वंसप्रतियोगिपाकत्वस्य हेतुत्वस्वीकारेऽपि विशेषणं व्यर्थम् । चरमपाकस्यानुपस्थित्या तत्र व्यभिचारस्यावारणीयत्वात् सिद्धसाधनाच्च । न च जातायामनुमितौ तस्याः व्यभिचारिहेतुकत्वेन भ्रमत्वं व्यभिचारज्ञानेन साध्यत इति न तद्व्यर्थमिति वाच्यम् । व्यभिचारिहेतुकानुमितित्वस्य भ्रमत्वाव्याप्यत्वात् । शब्दादिति । विद्यमाने शक्त्यादिज्ञानादविद्यमानव्यक्तेः शब्दात् बोधः । समानप्रकारकत्वेन शक्त्या दिज्ञानशब्दानुभवयोः कार्यकारणभावादिति भावः । स्मृतेस्तत्त्वाय गाहित्वनियमस्वीकारे धूमत्वादिमात्ररूपेण स्मृत्यसम्भवात्तादृशनियमं परित्यजन्नाह--प्रमु