________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
अद्वैतमञ्जरी ।
टतत्ताकेति । तद्देशकालवृत्तित्वरूपतत्ताविशिष्टधूमत्वादिरूपेण धूमादिविषयकस्यापि संस्कारस्य तत्तांशेऽनुबोधादविषयीकृततत्ताकेत्यर्थः । ज्ञानादेवेति । विशेषणज्ञानस्य विशिष्टधीत्वावच्छिन्नं प्रति न हेतुत्वम् । स्मृतौ व्यभिचारात् । अथ संस्कारसम्बन्धेन हेतृत्वात् नोक्तव्यभिचार इति चेत् । तर्हि प्रत्यक्षादौ व्यभिचारः । तस्मात् समवायेनैव तस्य विशिष्ट प्रत्यक्षत्वावच्छिन्नं प्रति हेतुत्वं सम्भवदक्तिकम् । तदपि न युक्तिसहमित्यनुपदं मूले वक्ष्यते । ननु, विशेषणतावच्छेदकप्रकारकधीत्वेनापि हेतुत्वे स एव पन्थाः । सत्यम् । विशेषणतावच्छेदकप्रकारकज्ञानादिति मूलस्य वह्नित्वादिरूपेण वहिव्याप्त्यादिसंस्कारपरामर्शादित्यर्थः । तथा च संस्कारपरामर्शादेरेव साध्यविशेषणकस्मृत्यनुमित्यादिनियामकत्वम्। ननु, वद्वित्वरूपेण पर्वतीयवद्वेरेव पर्वतपक्षकानुमितौ नियमेन भानानुपपत्तिः । व्याप्त्यादिविषयकपरामर्शे महानसीयादिवढेरेव त्वन्मते भानात् तस्यैव भानापत्तिः तस्यापि भानापत्तिर्वा । कार्यतावच्छेदके वहिविशेषानिवेशादिति चेन्न । मन्मते स्वतः प्रमात्वस्वीकारेणोत्पत्तौ ज्ञप्तौ च प्रमात्वस्य स्वतस्त्वात् । ज्ञानसामान्यसामग्य एव हि प्रमात्वे नियामकत्वम् । न तु गुणस्य । ननु, तर्हि ज्ञानसामान्यसामग्रीजन्यतावच्छेदकं प्रमा. त्वमित्यागतम् । तच्च न सम्भवति । प्रमात्वस्य ज्ञानसामान्यसामग्यश्च विषयभेदेन नानात्वात् । (विषयसमसंख्यानां प्रमायां ज्ञानसामान्यसामग्रीहेतुत्वानामापत्तेः । एकस्मिन्नपि विषयेन्द्रियसन्निकर्षव्याप्तिनिश्चयादीनामेकरूपेगैकसम्बन्धेन च हेतुत्वासम्भवेन नानाहेतुत्वापत्तेः । तथा च गुणजन्यतावच्छेदकमेव प्रमात्वं वक्तुं युक्तम् । समवायाघेकसम्बन्धेन यद्विशेष्यसम्बन्धं यत् विशेषणं तदृत्तिर्या स्वप्रकारता तदाश्रयवृत्तिधर्मवत्त्वसम्बन्धेन ज्ञानं प्रति तादृशसम्बन्धविशेषणवृत्तिधर्मत्वेन हेतुत्वस्यैकस्यैव सम्भवात् । तादृशधर्मस्तु केवलान्वयिविषयत्वादिकम् । तदाश्रयत्वसम्बन्धेन ज्ञानं घटादौ जायते । तत्र तादृशधर्मो विषयत्वादिकमस्ति । तस्य च विशेषणतासम्बन्धेन हेतुत्वम् । तस्यैव केवलान्वयिधर्म प्रति सम्बन्धत्वात् । तादृशप्रकारतामात्रसम्बन्धेन कायत्वस्योक्तव्यभिचारः । तादृशधर्मवति सर्वत्र तादृशप्रकारतासम्बन्धेन ज्ञानानुत्पत्तेः । विशेष्यसम्बन्धतत्तद्विशेषणवृत्तित्वविशिष्टधर्मत्वेन हेतुत्वोक्तौ तु तादृशप्रकारतामात्रं सम्बन्धेऽस्तु । विशिष्टस्य कारणस्यान्यत्रासत्त्वेन व्यभिचाराभावादिति चेन्न ।) यद्यपि वह्नयनुमितित्वादिकमेव कार्यतावच्छेदकम् ।
१. 'गुणजन्यतावच्छेदकत्वस्यैव प्रमात्ले वक्तुं युक्तत्वात् । ज्ञानसामग्रीभेदेऽपि विशेष्यस. म्बन्धविशेषणनानादिरूपस्य गुणस्यैकस्य सम्भवादिति चेन ।' इति पाठान्तरम् ।
For Private and Personal Use Only