________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षबाधोद्धारः]
लघुचन्द्रिका ।
संसर्गाभावो न योग्य इति नार्थः । उक्तप्रतियोगित्वाभावस्य योग्यायोग्यप्रतियोगिकत्वेन योग्यतापत्तेः । नाप्ययोग्यप्रतियोगिकः संसर्गाभावो न योग्य इत्यर्थः। महावायौ योग्यायोग्योद्भूतरूपसामान्याभावस्य प्रत्यक्षमिति दीधित्यादावुक्तत्वात् । नाप्ययोग्यधविच्छिन्नप्रतियोगिताकात्यन्ताभावो न योग्य इत्यर्थः। तावतापि स्तम्भे पिशाचादेरिव योग्ये घटादावुक्तप्रतियोगित्ववद्रोदस्य प्रत्यक्षत्वानिराकरणेन बाधसामान्यानुद्धारादित्यादि परास्तम् । उक्तप्रतियोगित्ववद्वेदप्रत्यक्षेऽप्युक्तयोग्यतायाः प्रतियोग्यनुपलम्भे अपेक्षणेन तदभावे ताढशप्रत्यक्षाभाव इत्यस्याप्युक्तग्रन्थेन प्रतिपादनात् । अत एवोक्तदीधितिवाक्ये तादृशावच्छेदकत्ववद्भेदस्यापि अनध्यक्षतायां तात्पयम् । अत एव च 'मूर्तसामान्यतद्वतोरिवोपाधिसामान्यतद्वतोरत्यन्ताभावान्योन्याभावौ न योग्या' वित्यादिकं व्याप्तिग्रहोपायदीधित्यादावुक्तम् । अतीन्द्रियसाधारणं अतीन्द्रियतादृशाभावतत्प्रतियोगित्वघटितत्वेनातीन्द्रियं यत् तादृशाभावप्रतियोगितात्वं तद्विशिष्टं चक्षुरादियोग्यं यस्य सत्त्वेन तदुपलब्धिरापादयितुं शक्यते,तादृशम् । यदि त्वयोग्यधर्मानवच्छिन्नयोग्यमात्रवृत्तिप्रतियोगिताकाभाव एव योग्यः । वाय्वादौ रूपाद्यभावस्तु न प्रत्यक्षः । किन्त्वनुमेय इति मतमवलम्ब्यते,तदा यथाश्रुतमेव योग्येत्यादिकं सम्यक् । यत्तु तादृशाभावप्रतियोगित्वं यदि घटे स्यात्, तदोपलभ्येतेत्यापादनं सम्भवत्येव । घटवृत्तेः संसर्गाभावप्रतियोगित्वस्य योग्यत्वात् । प्रागभावप्रतियोगित्ववत् । अत एव अयं घटोऽत्रैव नान्यत्रेत्यन्यदेशनिष्ठात्यन्ताभावप्रतियोगित्वस्य घटे प्रत्यक्षम् । अन्यदेशनिष्ठात्यन्ताभावस्तु न प्रत्यक्षः । विशेष्यसन्निकर्षाद्यभावात् । एवं सर्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगित्वमपि साक्षिवेद्यत्वाद्योग्यम् । अत एव शुक्तिरूप्यादौ मन्मते तस्य साक्षिवेद्यता स्वीक्रियते इति माध्वोक्तम् । तन्न । प्रागभावस्य हि सत्त्वे किं तत्प्रतियोगित्वं प्रत्यक्षं तदसत्वे वा । नाद्यः। तदोक्तप्रतियोगित्वस्याश्रयासन्निकर्षणाप्रत्यक्षत्वात् । अन्त्ये तु प्रागभावप्रतियोगितात्वेन प्रतियोगितात्वेन तव्यक्तित्वेन वा । नाद्यः। प्रागभावासन्निकर्षात् । प्रागभावप्रत्यक्षासम्भवेन तद्धटितरूपेण प्रत्यक्षासम्भवात् । न तदृष्टान्तेन तादृशात्यन्ताभावप्रतियोगित्वे योग्यतां प्रसाध्य तादृशप्रतियोगितात्वरूपेणोपलम्भापादनस्यासम्भवात् । न चाभावांशे अलौकिकस्य प्रतियोगित्वांशे लौकिकस्योपलम्भस्यापादनं सम्मवतीति वाच्यम् । गुरुत्वविशेषवत् घटत्वावच्छिअप्रतियोगिताकात्यन्ताभावस्य प्रत्यक्षापत्त्या प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणांशे प्रतियोग्यंशे च लौकिकस्थैवोपलम्भस्यापादनस्याभावप्रत्यक्षे प्रयोजकत्वात् । अत एव न द्वितीयः । घटत्वादिरूपेण घटादेः प्रत्यक्षं दिना तत्संयोगादेस्सं
For Private and Personal Use Only