________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे प्रतिकूलतर्क निराकरणम् ] लघुचन्द्रिका |
एवं पक्षान्तरेऽपीति भावः । चामीकरप्राप्तये चामीकरसम्बन्धाय । तस्य सिद्धत्वेऽप्यसिद्धत्वभ्रमेण तत्रेच्छेति ज्ञापनाय कण्ठगतत्वविस्मृतत्वयोरुक्तिः । भ्रमबाधकज्ञानो"त्पत्तये बन्धनाशाय । तादृशज्ञानस्योत्पत्तिर्यस्मै इति व्युत्पत्तिसम्भवात् । चरमवृत्तिरेव बन्धनाश इति पक्षे तु यथाश्रुत एवार्थः । ननु, 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।' इति वार्तिकोक्त्या तत्वज्ञानोपलक्षितस्यात्मनोऽज्ञाननिवृत्तित्वम् । अज्ञानमेव च बन्धः । 'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । ' इति वार्तिकोः । तथा चोक्तात्मनोऽज्ञाननाशत्वे तस्य ज्ञानपूर्वमपि सत्त्वेन सिद्धत्वनिश्चयात् तदुद्देशेन प्रवृत्त्यनुपपत्तिः । न च ज्ञानोपहितात्मोद्देशेनैव प्रवृत्तिः । तादृशात्मनोसिद्धत्वनिश्चयादिति वाच्यम् । ज्ञानोपलक्षितात्मनोऽज्ञाननाशत्वोक्तिरूपवार्तिकविरोधात्तत्राह - सा चेति । घटनाशेति । घटावयवविभागाद्युपहितस्य घटावयवस्य निप्पत्तिर्घटनाशः । ऊहनीयेति । बन्धनाशार्थत्वेनोहनीयेत्यर्थः । तथा च ज्ञानोपहितात्मस्वरूप निष्पत्त्यर्थं मननश्रवणयोः प्रवृत्तिः । उक्तस्वरूपस्याज्ञाननाशत्वस्वीकारात् वार्तिके ज्ञानोपलक्षितात्मनोऽज्ञाननाशत्वोक्तिस्तु ज्ञाने नष्टेऽपि ज्ञानोत्तरमनःपरिमाणोपहितस्याप्यात्मनोऽज्ञाननाशत्वसूचनाय । आत्मस्वरूपमात्रस्य तन्नाशत्वे ज्ञानात्पूर्वमप्यज्ञाननाशव्यवहारापत्तेर्ज्ञातित्वोपलक्षितत्वोक्तिवैयर्थ्यापत्तेश्च । अथैवं चर
For Private and Personal Use Only
२७९
मस्य मनःपरिणामस्य नाशः क इति चेत् न कोऽपि । तर्हि स क्व गत इति चेत् नायमस्मान् प्रत्येव । तार्किकादीन् प्रत्यपि तत्सम्भवात् । यद्यपि हि तेषां मते दुःखस्य पापस्य वा चरमो नाशो मोक्ष इत्युच्यते, तथापि तादृशदुःखादि क्व गतमिति पर्यनुयोगस्तान प्रत्यस्त्येव । सांख्यादिमतेऽपि दुग्धादेर्दध्यादिपरिणामकाले दुग्धादि क्व गतमिति पर्यनुयोगः । अथ यथा घटादिकं कुत आगतमिति न पर्यनुयोगः । यत्क्षणे आगतं तदव्यवहितपूर्वक्षणे दण्डादिसामग्रीसम्बन्धादेवागतमित्युत्तरात् । तथा क्व गतमित्यपि नसः । नाशजनक सामग्रीमत्क्षणस्य प्रतियोग्यधिकरणकालपूर्वत्वाभावनियमान्नाशक्षणे प्रतियोगी नास्त्येवेति स्वीक्रियते । न तु कुत्रापि गत इत्युत्तरादिति तार्किकादिभिर्वाच्यमिति चेत् तर्हि प्रमायाः स्वसमानविषयक ज्ञानाधिकरणकालपूर्वत्वाभावनियमवच्चरमस्य तत्त्वज्ञानोत्तरमनः परिणामस्य स्वपरिणाम्यज्ञानतत्प्रयुक्तदृश्याधिकरणकालपूर्वत्वाभावनियमस्यास्माभिः स्वीकारादस्मान्प्रत्यपि न पर्यनुयोगः । तस्माद्यथा विभक्तरूपेणासिद्धत्वात् घटावयवे सिद्धेऽपीच्छा, तथा स्वरूपेण सिद्वेऽप्यात्मनि ज्ञानोपहितरूपेणासिद्धत्वादिच्छा । न चैवमुक्तरूपेण साध्यत्वात् बन्धनाशस्य सिद्धचामीकरस्य तद्दृष्टान्ततया पूर्वमुक्तिर्विरुध्येतेति वाच्यम् । यथा चामीकरं स्वरूपेण सिद्धमपि कल्पितेन कुण्ठा वृत्तित्वेनासिद्धतया ज्ञायमान