________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
अद्वैतमञ्जरी ।
पत्तेश्च । अत एव भ्रमत्वे दोषस्य प्रयोजकत्वात्तदभावे तात्त्विको दोषाभावः प्र योजक इत्यपास्तम् । अथ प्रतियोगिव्यधिकरणः स भ्रमत्वाभावे प्रयोजक उच्यते । तदपि न । तावता काचादिदोषाभावस्य तत्सम्भवेऽप्यविद्याभावस्य तादृशस्य तदसम्भवात्तत्काले द्वैतज्ञानस्यैवाप्रसिद्ध्या तत्र तत्प्रयोजकत्वस्याप्यप्रसिद्धत्वादिति भ्रमवैलक्षण्यं न द्वैतज्ञाने आपादयितुं शक्यते इति भावः । नन्वेवं द्वैतज्ञाने भ्रमत्वं निर्मलम् । न हि तस्य भ्रमत्वेन रूपेण कार्यता । मानाभावात् । तत्राह-कारणमिथ्यात्व इति । कारणस्याविद्यारूपप्रयोजकस्य मिथ्यात्वे ज्ञाननिवर्त्यत्वे । कार्यस्याविद्याप्रयुक्तद्वैतमात्रस्य । मिथ्यात्वावश्यकत्वात् अविद्यानिवृत्तिद्वारा ज्ञाननिवर्त्यत्वावश्यकत्वात् । तथा च भ्रमत्वेन कार्यत्वस्यास्वीकारेऽपि द्वैतस्याविद्याप्रयुक्तत्वेन ज्ञाननिवर्त्यत्वरूपमिथ्यात्वसत्त्वात् तज्ज्ञानस्य मिथ्याविषयकत्वरूपं भ्रमत्वमावश्यकमिति भावः । नन्वेवं बौद्धदुष्टवेदजन्यज्ञानस्य द्वैतज्ञानस्य च कल्पितदोषप्रयुक्तत्वेऽप्यविद्यादोषस्य द्वैतज्ञानसमसत्ताकत्वात् भ्रमत्वप्रयोजकत्वमिति पर्यवसितम् । तच्च न युक्तम् । भ्रमत्वनिश्चयात् पूर्व समसत्ताकत्वस्य ब्रह्मज्ञानत्राध्यत्वरूपस्य तयोरनिश्चयात् । तत्राह-ब्रह्मज्ञानेति । तथा च पूर्वं ब्रह्मज्ञानेतराबाध्यत्वरूपसत्ताया ब्रह्मणीव प्रपञ्चेऽपि निश्चयसम्भवात् द्रुतं यदि मिथ्या न स्यात्, तदा स्वसमानसत्ताकाविद्याप्रयुक्तं न स्यादिति तर्केण मिथ्यात्वनि. श्रयः युक्तः । उक्तवेदज्ञाने तु न तथा । बौद्धकल्पितदोषस्य प्रातीतिकतया स्वसमसत्ताकतत्प्रयुक्तं न स्यादित्यापत्तेरिष्टत्वादिति भावः । साधयेत्यादि । तकोभावेऽपि दोषत्वादिसाधर्म्यमात्रेण यदापादनं तद्बोधकवाक्यत्वात् । तदभावार्थतदत्यन्ताभावार्थम् । असाध्यत्वादिति । निवृत्तिस्तु, बन्धस्य न सम्भवति । शशविषाणवत्तस्य मिथ्यात्वेन तुच्छत्वात् । मिथ्यात्वादिति । तथा च तस्या निवृत्त्यसम्भवेनात्यन्ताभावार्थमेव यत्नो वाच्यःतत्रासाध्यत्वदोष उक्त इति भावः । ननु, क्षेमसाधारणं साध्यत्वमत्यन्ताभावेऽप्यस्ति । तत्राहअन्यथेति । अनिवर्त्यस्यापि मिथ्याभूतस्य बन्धत्वे इत्यर्थः । पारमार्थिकत्वाकारेण मिथ्यात्वमिति । पारमार्थिकत्वावच्छिन्नं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमित्यर्थः । निवृत्तिरेवेति । न तु मिथ्यात्वमिति शेषः । नेति । अ येत्यादिकं यदुक्तं तन्नेत्यर्थः । मिथ्यात्वं बन्धस्य मिथ्यात्वम् । तदर्थं मिथ्याबन्धस्य निवृत्त्यर्थम् । प्रवृत्त्यनुपपत्तिरिति । स्वप्नदृष्टम्यानिष्टस्य निवृत्त्यर्थं प्रवृत्त्यदर्शनादिति शेषः । तथैवेति । तदा बन्धनाशस्य सिद्धत्वनिश्चयादिति शेषः । बन्धनाशस्यात्मस्वरूपत्वे हि तत्त्वज्ञानोपलक्षितात्मस्वरूपे तत्र तदा सिद्धत्वं निश्चितम्।
For Private and Personal Use Only