SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे जडत्वनिरुक्तिः] लघुचन्द्रिका । ब्रह्मणि सत्ताश्रयत्वबोधे निर्द्धर्मितावच्छेदकबोधापत्त्या वैयाकरणरीत्या सत्तायां - ह्माश्रयकत्वबोधेऽपि तदापत्त्या सत्तायां ब्रह्मकर्तृकत्वबोधे बाधस्याप्यापत्त्या 'सत्यं ज्ञान'मित्यादिवाक्यवदखण्डार्थकत्वादेको द्वावित्यादौ सर्वमतेष्विव प्रत्ययस्साधुत्वार्थ इति भावः । प्रमा त्रिकालाबाध्यविषयकत्वघटितप्रमात्वाश्रयः । दोषेति । सिद्धान्ते प्रमात्वस्य स्वतस्त्वस्वीकारेण गुणजन्यतानवच्छेदकत्वेन प्रमाया गुणजन्यत्वं नापादितम् । भ्रमस्य तु दोषजन्यत्वं सिद्धान्ते स्वीक्रियते । ज्ञानसामान्यसामग्न्या प्रमात्वविशिष्टमेव स्वकार्यतावच्छेदकावच्छिन्नं जन्यत इत्युत्सर्गः । दोपसहकृतया तु तया भ्रमत्वविशिष्टमित्यपवाद इति हि सिद्धान्तः । स्वभावतः वृ. त्यनुपरक्तचित्स्वभावेन । उभयवैलक्षण्येनेति । प्रमात्वभ्रमत्वशून्यत्वेनेत्यर्थः । वैलक्षण्येनापीत्यपिशब्देनेदं सूचितम् । घटाद्याकारवृत्ताविव घटाद्यवच्छिन्नचिति व्यावहारिकप्रमात्वं सम्भवति । गुणजन्यता तु सिद्धान्ते नास्त्येव । तेनाविद्याद्यवच्छिनचिद्रूपेण चितोऽनादित्वेऽपि न क्षतिः । वस्तुतस्त्वविद्यादेरज्ञातत्वाभावेनैव तदवच्छिन्ना चित् न प्रमा। ब्रह्मसाक्षात्कारोत्तरं तत्र भ्रमत्वसिद्धावपि न क्षतिः । अविद्याकामकर्मरूपदोषजन्यत्वस्य क्षेमसाधारणस्य सम्भवात् । शुक्तिरूप्याद्यवच्छिन्नचिद्रूपेण तु चिदागन्तुकदोषजन्येति । ननु, तार्किकमते ईशज्ञानं प्रमैव । यदि हि प्रमात्वं सर्वप्रमासाधारणं गुणजन्यतावच्छेदकं तार्किकमते स्यात्, तदा तस्य नित्यसाधारणतावारणाय जन्यत्वघटितत्वमुच्येत । तत्तु, न सम्भवति । प्रमामात्रे गुणस्यानुगतस्य कारणत्वासम्भवात् । उक्तं च मणौ-प्रमामात्रे नानुगतो गुणः । किं तु तत्तत्प्रमायां भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां यथायथं गुणत्वमिति । तत्राह-तत्रापीति। तार्किकमतेऽपीत्यर्थः । यथा मन्मते आत्मरूपज्ञानस्य प्रमात्वादिस्वीकारे दूषणमुक्तं, तथा तन्मते ईशज्ञानस्य तत्स्वीकारे गुणजन्यत्वाद्यापत्तिरित्यर्थः । यद्यपीह प्रत्यक्षानुमित्यादिसाधारणं घटप्रमात्वं नानुगतगुणजन्यतावच्छेदकम् । तथापि घटीयप्रत्यक्षप्रमात्वं भूयोऽवयवेन्द्रियसन्निकर्षजन्यतावच्छेदकं वाच्यमेव । तस्य च नित्येश्वरधीसाधारणस्य जन्यतावच्छेदकत्वासम्भवेन जन्यत्वघटितत्वमावश्यकम् । अत एव तद्वति तत्प्रकारकज्ञानत्वरूपं प्रमालक्षणमुक्त्वा 'तत्प्रकारकत्वं तद्वैशिष्ट्यविषयकत्वं तज्ज्ञानजन्यत्वं वा ईश्वरस्य तद्वैशिष्ट्यविषयकं ज्ञा मतत्प्रकारकं निर्विकल्पकं च प्रमाप्रमाबहिर्भूतम् । व्यवहारानङ्गत्वात् , इत्युक्तं मणौ । व्यवहारानङ्गत्वात् गुणजन्यतावच्छेदकप्रमात्वविशिष्टतया विप्रतिपत्तिर्व्यवहारः । तदविषयत्वादीश्वरज्ञानं निर्विकल्पकं च प्रमाप्रमाबहिर्भूतमित्यर्थः । किं च 'प्रमामात्रे नानुगतो गुण'इत्यादिमणिवाक्यं प्रत्यक्षानुमित्यादिसाधारणघटादि For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy