________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
कारकान्वयासम्भवस्योक्तत्वात् । सिद्धकर्तृकत्वं हि यत्र नियमेन सम्भवति । तत्रैव धात्वर्थस्य क्रियारूपत्वं वैयाकरणैः धात्वर्थविशिष्टाख्यातार्थस्य मीमांसकैश्च स्वीक्रियते । तच्च गच्छतीत्यादौ । न ह्यसिद्धकर्तारमादाय तत्प्रयोगस्सम्भवति । भवतीत्यादौ तु न सिद्धकर्तृकत्वनियमः । न हि भवति आकाशं भवतीति । अस्त्यादौ च न तन्नियमः । आकाशमस्तीतिवदुत्पद्यमानमस्तीत्यादिप्रयोगात् । तदुक्तं भट्टवार्तिके'सिद्धकर्तृक्रियायोगादाख्यातप्रत्यये सति । सामानाधिकरण्येन करोत्यर्थोऽवगम्यत' इति सिद्धकर्तृयोगस्यावश्यकत्वे हेतुः । सामानाधिकरण्येनेति सिद्धकर्तनिष्ठस्यैव कर्तृत्वस्य भावनायां सामानाधिकरण्यसम्भवेनेत्यर्थः । स्वयमसिद्धस्य कर्तृत्वासम्भवात् । अस्तीत्यादौ भावनाप्रत्ययाभावः सर्वेषामपि तुल्य इति असिद्धनिष्ठस्य कर्तृत्वस्य भावनायां सामानाधिकरण्यासम्भवेन क्रियाया अप्रत्यये सर्वेषां मते कर्तृकारकाप्रत्ययोऽपि तुल्य इत्यर्थः । न च 'भूतले घटोऽस्ती' त्यादौ भावनां विनाऽपि आधारकारकस्येव कर्तुः प्रत्ययोऽस्तीति वाच्यम् । क्रियाया एव कारकान्वयित्वेन तदभावे सप्तम्यास्सम्बन्धमानवाचकत्वात् । अथ घटो भवतीत्यादौ घटं भावयतीत्यर्थे भवनेनाक्षिप्तभावनाया आख्यातेन बोधात् भूधातुनैव कपालभवनस्य करणत्वेन कपालावयवभवनस्येतिकर्तव्यतात्वेन लक्षणया बोधनादंशत्रयविशिष्टभावनाधीः । तथा च भावनाप्रत्ययेनाध्याहृतचैत्रादिपदात् कर्तृप्रत्ययसम्भवः । उक्तश्चायमपि पक्षः भट्टवार्तिके- 'अस्त्यादावपि कशे भाव्येऽस्त्येव हि भावने 'ति । इति चेदास्तामेवम् । सत्तारूपक्रियायाः कर्तृत्वानन्वये प्रकृतार्थे हानिस्तु नैवास्तीति सिद्ध उक्तसत्ता ब्रह्मश्रितेति बोधः । किं च प्राचीनसिद्धान्ते नोक्तरूपा सत्ता । किं तु शुद्धचिदेव । यथा हि एकस्या एव चितः कल्पितभेदेनांशत्रयं सत्ता स्फुरणं आनन्दश्च । तदुक्तं वृद्धैः- 'अस्ति भाति प्रियं रूपं नाम चेत्यंशपश्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥' इति । तत्र सत्तांशस्य व्यवहारे असत्त्वापादकाज्ञानं प्रतिबन्धकम् । स्फुरणांशस्याभानापादकमज्ञानम् । आनन्दांशस्यानानन्दापादकाज्ञानम् । सत्तांश एव ज्ञानांशः । तस्य त्रितयस्याखण्डस्यैव अस्तिस्फुरत्यानन्दतिवाच्यत्वेन घटोऽस्तीत्यादौ शुद्धचित्प्रकारको बोधः । घटं जानामीत्यादौ च ज्ञाने घटादे वान्तरबोधः । निर्द्धर्मितावच्छेदकबोधासम्भवात् । किं तु 'विशेष्ये विशेषणं तंत्रापि विशेषणान्तर'मितिन्यायेन घटज्ञानप्रकारकधीः । घटस्य ज्ञानमित्यादौ तु ज्ञानपदं षष्ठ्या ज्ञानीयविषयितालक्षकत्वे तात्पर्यग्राहकम् । न तु ज्ञानांशबोधकम् । निमितावच्छेदकबोधासम्भवात् । एवं च ब्रह्मास्तीत्यादौ
For Private and Personal Use Only