________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे जडत्वनिरुक्तिः ]
लघुचन्द्रिको ।
तावताप्यपरोक्षज्ञानत्वोपलक्षितस्य नोक्तव्याप्यतासिद्धिरित्याशयेनाह---जन्येति । ईश्वरज्ञानं तु यत् अपरोक्षं विद्यमानमात्रविषयकं, तत् उक्तसम्बन्धेनाप्यर्थव्याप्यमेव । यत्तु, भौविविषयकमनुमितिरूपमतीतविषयकं वा स्मृतिरूपं च विवरणोक्तं तस्यार्थाव्याप्यत्वेऽपि नोक्तव्याप्तिहानिरिति भावः । ननु, तथापि योगजधर्मजन्यापरोक्षज्ञानस्यार्थाव्याप्यत्वात् नोक्तव्याप्तिः । तत्राह-आर्पज्ञानस्यति । योगजधर्मनन्यज्ञानस्येत्यर्थः । अनभ्युपगमादिति । अनावृतसाक्षितादात्म्यविशिष्टविषयकत्वं ज्ञानस्यापरोक्षस्वम् । आर्पज्ञानस्यानावृतत्वसम्पादकत्वेऽपि तद्विषयेऽतीतानागते तत्काले साक्षितादात्म्याभावात्तदशे तस्य नापरोक्षता । विद्यमानविषयांशे त्वपरोक्षं तत् ज्ञानं तादृशार्थव्याप्यमेवेति भावः । सिध्यनुपपत्तिः उक्तव्याप्त्या या सि हिः, तदनुपपत्तिः । ज्ञातृव्याप्यत्वं 'यद्यत् ज्ञानं तत्र समवेतत्वसम्बन्धेन ज्ञाते'ति व्याप्तिः । ईश्वरज्ञान इति । तस्य नित्यतावादिमतेनेदम् । वाचस्पतिमते सिद्धान्ते. ऽपि मायावृत्तिरूपेश्वरज्ञानाभावात्तन्मतनापीदम् । न च तन्मतेऽपि विषयावच्छिन्नचिद्रूपेण ज्ञातजन्यतेति वाच्यम् । अविद्याद्यनादिविषयस्य तदभावात् । ज्ञाननित्यत्वेति । ज्ञानत्वोपलक्षितस्य नित्यत्वेत्यर्थः । ज्ञानत्वविशिष्टस्य तु ज्ञातृनन्यत्वमिष्टमेव । विवरणमते ईशस्य मायावृत्त्यवच्छिन्नचिद्रूपज्ञानस्य तत्सम्भवात् । द्वितीयेऽपीत्यादिकं ज्ञानत्वोपलक्षिताभिप्रायकम् । ब्रह्मसत्तां ब्रह्मणः सत्ताम् । नित्यत्वेन ब्रह्मसत्ताया अनादित्वेन । साधुत्वार्थ इति । यथा मणिकारादिमते 'चैत्रो जानाती, त्यादौ ज्ञानकर्तृत्वादेरननुभवात्, ज्ञानाश्रयत्वादिलक्षणायां गौरवाच अवच्छेदकतासम्बन्धेन ज्ञानप्रकारकधीस्वीकारादाख्यातं न कर्तृत्वमाह । किं तु साधुत्वमात्रार्थम् । तथा प्रकृते ब्रह्मसत्ताया अनादित्वेन तत्कर्तृत्वबोधासम्भवात् घटोऽस्तीत्यादावपि क्रि यात्वाभावेन कारकान्वयबोधासम्भवादाश्रयत्वस्यैवाख्यातेन बोधाच्च ब्रह्मास्तिपदाभ्यामखण्डब्रह्मबोधस्वीकारेणाख्यातं साधुत्वमात्रार्थम् । कल्पितभेदेन ब्रह्मणः स्वात्मकसत्ता श्रयत्वसम्भवेऽपि निर्धर्मितावच्छेदककशाब्दबुद्ध्यसम्भवेनाश्रयत्वस्याप्याख्यातेनाबोधा त्। ब्रह्मपदस्य उत्कृष्टार्थकत्वे तु तत्राश्रयत्वप्रकारकधीरिष्टैव । ननु, यथा अमानापादकाज्ञानविरोधि चित् भानम् । अनानन्दापादकाज्ञानविरोधि चित् आनन्दः । तथा असत्त्वापादकाज्ञानविरोधि चित् सत्ता । तथा च वैयाकरणमते धात्वर्थमुख्यविशेष्यकशाब्दधीस्वीकारात् सत्तामुख्यविशेष्यकब्रह्मकर्तृकत्वप्रकारकबोधः प्रकृते स्यात् । ब्रह्मनिष्ठोक्तसत्तायाश्च यद्यप्यनादित्वम् । चिदंशे तादृशाज्ञानाखीकारात् । तथाऽपि तस्याः क्षेमसाधारणसाध्यत्वस्याखण्डधर्मरूपप्रयुक्तत्वस्य वा सम्भवात् । तस्य च ब्रह्मरूपकर्तृनिरूपितत्वसम्मवादिति चेन्न । क्रियात्वाभावेन
For Private and Personal Use Only